लोकसभा 'बैंकर्स बुक्स एविडेंस इत्येतद् विधेयकं -2026' ध्वनि मतेनाददात्सहमतिम्
-लोकसभायाः कार्यवाही गुरुवासरे प्रातः 11 वादनं यावत् स्थगिता नवदिल्ली, 05 अगस्तमासः (हि.स.)। लोकसभया बुधवासरे विपक्षिसदस्यानां निरन्तरकोलाहलस्य मध्ये बैंकर्सबुक्सएविडेन्सविधेयकं २०२६ इति ध्वनिमतेन अनुमोदितम्। कोलाहलस्य कारणात् लोकसभायाः कार्यवा
लोकसभा में 'बैंकर्स बुक्स एविडेंस बिल, 2026' स्थापित करते सीतारमण


-लोकसभायाः कार्यवाही गुरुवासरे प्रातः 11 वादनं यावत् स्थगिता

नवदिल्ली, 05 अगस्तमासः (हि.स.)।

लोकसभया बुधवासरे विपक्षिसदस्यानां निरन्तरकोलाहलस्य मध्ये बैंकर्सबुक्सएविडेन्सविधेयकं २०२६ इति ध्वनिमतेन अनुमोदितम्। कोलाहलस्य कारणात् लोकसभायाः कार्यवाही अपि षष्ठे अगस्ते प्रातः एकादशवादनपर्यन्तं स्थगिता।

लोकसभया पारितम् एतत् विधेयकं बैंकर्सबुक्स अर्थात् बैंकअभिलेखसम्बद्धसाक्ष्याणां कृते विधाननिर्माणं करोति तथा तत् अद्यतनडिजिटलबैंकिङ्पद्धतीनां अनुरूपं निर्मीयते। एतेन सह तेन सम्बद्धानां विषयाणां कृते अपि विविधाः व्यवस्थाः विधीयन्ते।

केन्द्रीयवित्तकॉर्पोरेटकार्यविभागयोः मन्त्रिणी निर्मलासीतारमण सोमवासरे लोकसभायां बैंकर्सबुक्सएविडेन्सविधेयकं २०२६ इति उपस्थापितवती। एतत् विधेयकं औपनिवेशिककालस्य पञ्चविंशत्यधिकशतवर्षप्राचीनं बैंककारबहीसाक्ष्यअधिनियमं १८९१ प्रतिस्थापयिष्यति।

अस्य विधेयकस्य उद्देश्यं बैंककारबहीसम्बद्धसाक्ष्याणां कृते विधाननिर्माणं कृत्वा तत् अद्यतनडिजिटलबैंकिङ्पद्धतीनाम् अनुरूपं कर्तुम् अस्ति। विधेयकस्य लक्ष्यं वर्तमानबैंकिङ्व्यवस्थायाः आवश्यकतानां पूर्त्यर्थं विधिकपरिसरस्य आधुनिकीकरणम् अस्ति। विधेयके एषा व्यवस्था अपि अस्ति यत् बैंककारबह्याः वैद्युतिकः डिजिटलः वा अभिलेखः साक्ष्यरूपेण ग्राह्यः मान्यः विधिसम्मतः च भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani