भोपाले ब्रिक्स सांस्कृतिक सम्मेलनं शुभारब्धं, 100 तः अधिकाः विदेशी-अतिथयःअगृह्णन् भागम्
भोपालम्, 05 अगस्तमासः (हि.स.)।मध्यप्रदेशस्य राजधानी भोपालनगरे बुधवासरात् भारतस्य अध्यक्षतायां ब्रिक्ससांस्कृतिकसम्मेलनम् २०२६ प्रारब्धम्। अत्र कुशाभाऊठाकरेकन्वेन्शनकेन्द्रे (मिण्टोहॉल) ब्रिक्सदेशानाम् अधिकारिणां उपवेशनं प्रवर्तते। उपवेशनात् पूर्व
ब्रिक्स सांस्कृतिक सम्मेलन शुरू होने से पहले भोपाल के मिंटो हाल में हुआ फोटो सेशन


भोपालम्, 05 अगस्तमासः (हि.स.)।मध्यप्रदेशस्य राजधानी भोपालनगरे बुधवासरात् भारतस्य अध्यक्षतायां ब्रिक्ससांस्कृतिकसम्मेलनम् २०२६ प्रारब्धम्। अत्र कुशाभाऊठाकरेकन्वेन्शनकेन्द्रे (मिण्टोहॉल) ब्रिक्सदेशानाम् अधिकारिणां उपवेशनं प्रवर्तते।

उपवेशनात् पूर्वं मिण्टोहॉले प्रातः एकादशवादने सर्वेषां अतिथीनां सामूहिकछायाचित्रग्रहणम् अभवत्। ततः उपवेशनानां क्रमः प्रारब्धः। चतुर्दिनात्मकस्मिन् वैश्विकसम्मेलने सहभागिदेशानां शताधिकाः प्रतिनिधयः सहभागित्वं कुर्वन्ति। सम्मेलने सांस्कृतिकसहयोगः, विरासतसंरक्षणम्, परस्परसहभागिता च इत्येतेषु विषयेषु अनेकानि महत्त्वपूर्णानि सत्राणि आयोजयिष्यन्ते।

मिण्टोहॉलपरिसरे ‘ज्ञानभारतम्’, ‘प्रोजेक्ट् मौसम’ तथा ‘प्रोजेक्ट् बृहत्तरभारत’ इति त्रयाणां विशेषप्रदर्शन्यः आयोजिताः सन्ति। एताः प्रदर्शन्यः एतेषु चतुर्षु दिवसेषु सामान्यजनानाम् अपि कृते उद्घाटिताः सन्ति। एताभिः प्रदर्शनिभिः भारतस्य पाण्डुलिपिविरासत्, सामुद्रिकसांस्कृतिकसम्बन्धाः, सभ्यतासम्बद्धता च प्रदर्श्यन्ते। सहैव विरासतसंरक्षणे, सांस्कृतिककूटनीत्यां, अन्ताराष्ट्रियसहयोगे च भारतस्य विविधाः पहलाः विशेषरूपेण प्रकाश्यन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani