Enter your Email Address to subscribe to our newsletters

- मुख्यमंत्री पूर्व मुख्यमंत्रिणः स्व. द्वारिका प्रसाद मिश्रस्य जयंत्यां पुष्पांजलिम् अर्पयित्वा कृतं नमनम्
भोपालम्, 05 अगस्तमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः बुधवासरे विधानसभायाः केन्द्रीयसभागारे प्रदेशस्य भूतपूर्वमुख्यमन्त्रिणः पण्डितद्वारिकाप्रसादमिश्रस्य जयन्त्यवसरे तस्य चित्रे पुष्पाञ्जलिम् अर्पयित्वा श्रद्धाञ्जलिम् अददात्। अस्मिन्नवसरे तेन उक्तं यत् पण्डितद्वारिकाप्रसादमिश्रस्य आदर्शजीवनं राष्ट्रसेवा बौद्धिकनेतृत्वं जनकल्याणाय समर्पणं च आगामिपीढीनां कृते सदा प्रेरणास्रोतः भविष्यति।
कार्यक्रमे मध्यप्रदेशविधानसभायाः अध्यक्षः नरेन्द्रसिंहतोमरः अपि स्वर्गीयद्वारिकाप्रसादमिश्रस्य चित्रे पुष्पाञ्जलिम् अर्पयित्वा श्रद्धापूर्वकं तस्मै नमनम् अकरोत् तथा तस्य सार्वजनिकजीवने प्रदेशस्य विकासे च प्रदत्तस्य योगदानस्य स्मरणम् अकरोत्। अस्मिन्नवसरे विधायकाः डा राजेन्द्रकुमारसिंहः हरिशङ्करखटीकः रामनिवासशाहः जनसम्पर्कायुक्तः मनीषसिंहः स्वर्गीयमिश्रस्य पौत्रः डा विवेकमिश्रः अन्ये परिजनाः विधानसभायाः अधिकारीणः कर्मचारीणश्च उपस्थिताः आसन्।
पुष्पाञ्जलिकार्यक्रमस्य अनन्तरं मुख्यमन्त्री डा मोहनयादवः अवदत् यत् स्वर्गीयः पण्डितद्वारिकाप्रसादमिश्रः निर्भीकः राजनेता उत्कृष्टः साहित्यकारः लेखकः राष्ट्रभक्तश्च आसीत्। प्रदेशस्य विकासे लोकतान्त्रिकमूल्यानां सुदृढीकरणे च तस्य योगदानम् अविस्मरणीयम् अस्ति। सः सदा अस्माकं स्मृतिषु प्रेरणायाश्च केन्द्रे भविष्यति।
उल्लेखनीयं यत् पण्डितद्वारिकाप्रसादमिश्रस्य जन्म पञ्चम्यां अगस्तमासस्य एकोनविंशत्यधिकएकोनविंशतिशततमे वर्षे अभवत्। तेन रायपुरे जबलपुरे इलाहाबादे च शिक्षा प्राप्ता तथा स्वतन्त्रतासङ्ग्रामे सक्रियभूमिका निर्वाहिता। वर्षे एकोनविंशत्यधिकनवदशशततमे असहयोगान्दोलने सः गृहीतः अभवत्। ततः परं अन्येष्वपि आन्दोलनिषु सक्रियभूमिकां निर्वहन् सः अनेकवारं कारागारम् अगच्छत्। सः प्रख्यातः पत्रकारः साहित्यकारः जननेता च आसीत्। पण्डितमिश्रः वर्षे एकोनषष्ट्यधिकनवदशशततमे आरभ्य सप्तषष्ट्यधिकनवदशशततमवर्षपर्यन्तं पुनश्च सप्तषष्ट्यधिकनवदशशततमवर्षस्य मार्चमासात् तस्यैव वर्षस्य जुलैमासपर्यन्तं मध्यप्रदेशस्य मुख्यमन्त्रिरूपेण प्रदेशस्य नेतृत्वम् अकरोत्। स्थानीयप्रशासनस्य सशक्तीकरणाय प्रशासनिकसुधाराय जनहितकारीनीतीनां प्रवर्तनाय च सः विशेषरूपेण स्मर्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani