राष्ट्रचिंतकाय रामबहादुर रायाय दास्यते ‘पद्मभूषण युगतुलसी प. रामकिंकर उपाध्याय राष्ट्रियः पुरस्कारः’
- भोपालस्य मानस भवने गुरुवासरे सायं 04वादने भविष्यति अलंकरण समारोहः भोपालम्, 05 अगस्तमासः (हि.स.)।मध्यप्रदेशशासनस्य संस्कृतिविभागस्य तुलसीशोधसंस्थानेन प्रतिष्ठिताय वरिष्ठपत्रकाराय लेखकाय राष्ट्रचिन्तकाय च रामबहादुरराय महोदयाय वर्ष २०२६ कृते ‘पद
रामबहादुर राय (फाइल)


- भोपालस्य मानस भवने गुरुवासरे सायं 04वादने भविष्यति अलंकरण समारोहः

भोपालम्, 05 अगस्तमासः (हि.स.)।मध्यप्रदेशशासनस्य संस्कृतिविभागस्य तुलसीशोधसंस्थानेन प्रतिष्ठिताय वरिष्ठपत्रकाराय लेखकाय राष्ट्रचिन्तकाय च रामबहादुरराय महोदयाय वर्ष २०२६ कृते ‘पद्मभूषणयुगतुलसीपण्डितरामकिंकरउपाध्यायराष्ट्रीयपुरस्कारः’ प्रदास्यते।

एतां सूचनां बुधवासरे मध्यप्रदेशजनजातीयसङ्ग्रहालयस्य निदेशकः सुदेशशर्मा अदात्। तेन उक्तं यत् अलङ्करणसमारोहस्य आयोजनं भोपालस्थिते तुलसीमानसप्रतिष्ठाने (मानसभवने) गुरुवासरे ०६ अगस्त दिनाङ्के अपराह्णे चतुर्वादने भविष्यति। अस्मिन् समारोहे राष्ट्रचिन्तकः रामबहादुरराय उक्तेन पुरस्कारेण सम्मानितः भविष्यति।

१९४६ तमस्य वर्षस्य जुलैमासस्य प्रथमदिनाङ्के उत्तरप्रदेशस्य गाजीपुरजनपदे जातः रामबहादुरराय हिन्दीभाषायाः वरिष्ठपत्रकारः, लेखकः, चिन्तकश्च अस्ति। सः सम्प्रति इन्दिरागान्धीराष्ट्रीयकलाकेन्द्रस्य अध्यक्षः अस्ति। सहैव सः देशस्य प्राचीनतमायाः बहुभाषिकसमाचारसंस्थायाः हिन्दुस्थानसमाचारस्य समूहसम्पादकः अपि अस्ति। समाजस्य, राजनीतेः समसामयिकविषयाणां च विषये तस्य लेखनसम्पादनयोः व्यापकः सम्मानः प्राप्तः अस्ति।

रामबहादुरराय काशीहिन्दूविश्वविद्यालयात् अर्थशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान्। ततः राजस्थानविश्वविद्यालयात् पत्रकारितायां स्नातकोत्तरडिप्लोमाप्रमाणपत्रम् अधिगतवान्। तेन सामाजिकक्षेत्रे महत्त्वपूर्णं योगदानं प्रदत्तम्। सः बिहारआन्दोलनस्य सहभागिता कृतवान् तथा १९७१ तमे वर्षे बाङ्ग्लादेशमुक्तिसङ्ग्रामस्य वार्ताप्रतिवेदनम् अकरोत्। सः जे.बी. कृपलानीमेमोरियलट्रस्टस्य न्यासी अपि आसीत्।

पत्रकारिताक्षेत्रे तस्य विविधाः योगदानाः उल्लेखनीयाः सन्ति। सः १९८३ तमे वर्षे जनसत्ता पत्रिकायाः संवाददाता आसीत्, १९८४–१९८६ वर्षयोः मुख्यसंवाददाता, १९८६–१९९१ वर्षपर्यन्तं नवभारतटाइम्स पत्रिकायाः विशेषसंवाददाता, १९९१–१९९६ वर्षपर्यन्तं जनसत्ता पत्रिकायाः ब्यूरोप्रमुखः, तथा १९९६–२००४ वर्षपर्यन्तं जनसत्तासमाचारसेवायाः सम्पादकः आसीत्। सम्प्रति अपि सः प्रतिष्ठितेषु राष्ट्रीयपत्रपत्रिकासु सततं सक्रियलेखनं करोति।

---------------

Hindusthan Samachar / Dheeraj Maithani