नैनीताले ०८ अगस्ततः १६ अगस्तपर्यन्तं विशेष-स्वच्छता-अभियानम्
नैनीतालम्, ०५ अगस्तमासः (हि.स.)। जनपदं स्वच्छं सुन्दरं च कर्तुं जनपदाधिकारीणः निर्देशानुसारं ०८ अगस्ततः १६ अगस्त २०२६ पर्यन्तं सम्पूर्णे जनपदे “विशेष-स्वच्छता-अभियानम्” आयोजयिष्यते। जनपदाधिकारी ललित-मोहन-रयालः अवदत् यत् अस्य अभियानस्य अन्तर्गतं विभ
safai Abhiyan


नैनीतालम्, ०५ अगस्तमासः (हि.स.)। जनपदं स्वच्छं सुन्दरं च कर्तुं जनपदाधिकारीणः निर्देशानुसारं ०८ अगस्ततः १६ अगस्त २०२६ पर्यन्तं सम्पूर्णे जनपदे “विशेष-स्वच्छता-अभियानम्” आयोजयिष्यते। जनपदाधिकारी ललित-मोहन-रयालः अवदत् यत् अस्य अभियानस्य अन्तर्गतं विभिन्नेषु क्षेत्रेषु सघन-स्वच्छता-कार्यं करिष्यते।

अभियाने राष्ट्रियराजमार्गेषु, राज्य-राजमार्गेषु, जनपदीय-मार्गेषु, ग्राम-पञ्चायतेषु, नगरीय-क्षेत्रेषु, वनक्षेत्रेषु तथा सार्वजनिक-स्थलेषु विशेष-स्वच्छता कार्यं भविष्यति। राजमार्गाणां मार्गाणां च उभयतः प्रसारितस्य कचरस्य एकवार-प्रयोगीय-प्लास्टिक इत्यस्य च चिह्नीकरणं कृत्वा सुरक्षितरूपेण निस्तारणं करिष्यते।

नगरीय-क्षेत्रेषु नगरायुक्तः, वरिष्ठ-नगर-स्वास्थ्याधिकारी तथा कार्यपालक-अधिकारी स्व-स्व नगरक्षेत्रेषु सघन-स्वच्छता-अभियानं सञ्चालयिष्यन्ति। वनक्षेत्रेषु पर्यटन-क्षेत्रेषु च, विशेषतः रामनगर-मार्गे, चोरगलिया-मार्गे तथा अन्येषु वनक्षेत्रेषु कचरेण प्रभावितानां संवेदनशील-स्थलानां स्वच्छता करिष्यते।

पर्यटन-स्थलेष्वपि विशेष-स्वच्छता-अभियानं सञ्चालयिष्यते। ग्रामीण-क्षेत्रेषु जनपद-पञ्चायत्, पञ्चायतीराज-विभागः ग्राम्य-विकास-विभागश्च ग्राम-पञ्चायतेषु सघन-स्वच्छता-कार्यं करिष्यन्ति। रामनगरस्य विश्रामगृह-क्षेत्रम्, बैलपड़ाव, धानाचूली, मुक्तेश्वरः, धारी तथा रामगढम् इत्यादिषु अधिक-पर्यटन-गतिविधियुक्तेषु आवागमन-बहुलेषु च क्षेत्रेषु विशेषं ध्यानं प्रदास्यते।

अभियानं सफलतया सम्पन्नं कर्तुं त्रयाणां क्षेत्राणां कृते विभिन्नानि दलानि गठितानि सन्ति तथा अधिकारिणां नियुक्तिः कृता अस्ति। जनपदाधिकारीणः जन-प्रतिनिधिभ्यः, स्वयंसेवी-सङ्गठनेभ्यः, महिला-युवक-मङ्गल-दलेभ्यः, एनसीसी, एनएसएस-सदस्येभ्यः तथा सामान्य-जनाय अपि अस्मिन् अभियाने उत्साहपूर्वकं सहभागितां कर्तुं आह्वानं कृतम्।

जनपदाधिकारीणः निर्देशः अस्ति यत् अस्य विशेष-स्वच्छता-अभियानस्य कार्यं गम्भीरतापूर्वकं कृत्वा तस्य सफलं सम्पादनं सुनिश्चितं क्रियताम्। प्रतिदिनस्य स्वच्छता-कार्यस्य छायाचित्राणि भौगोलिक-स्थान-चिह्नेन सह उप-लब्धानि कारयितुं सुनिश्चितं कर्तव्यम्।

Hindusthan Samachar / Divya Ranjan