अनुच्छेदस्य 370 अपाकरचं जम्मू-कश्मीररोः, लद्दाखस्य च विकासे नूतनः अध्यायः - प्रधानमंत्री
नवदिल्ली, 05 अगस्तमासः (हि.स.)।जम्मूकश्मीरलद्दाखयोः अनुच्छेदस्य ३७० इत्यस्य अवरोधस्य निराकरणस्य अद्य सप्तमी वर्षगाठा अस्ति। प्रधानमन्त्री नरेन्द्रमोदी अस्मिन्नवसरे अवदत् यत् सप्तवर्षेभ्यः पूर्वम् अनुच्छेदौ ३७० तथा ३५ ए इतिहासस्य विषयौ अभवताम्। अनेन
जम्मू-कश्मीर तब और अब (प्रतिकात्मक चित्र)


नवदिल्ली, 05 अगस्तमासः (हि.स.)।जम्मूकश्मीरलद्दाखयोः अनुच्छेदस्य ३७० इत्यस्य अवरोधस्य निराकरणस्य अद्य सप्तमी वर्षगाठा अस्ति। प्रधानमन्त्री नरेन्द्रमोदी अस्मिन्नवसरे अवदत् यत् सप्तवर्षेभ्यः पूर्वम् अनुच्छेदौ ३७० तथा ३५ ए इतिहासस्य विषयौ अभवताम्। अनेन जम्मूकश्मीरस्य लद्दाखस्य च विकासे निर्णायकः नूतनः अध्यायः आरब्धः। अनेन जम्मूकश्मीरस्य लद्दाखस्य च जनानां जीवने व्यापकः परिवर्तनः अभवत्। अस्मिन् वर्षे अगस्तमासस्य पञ्चमः दिवसः अधिकमहत्त्वपूर्णः अस्ति यतः अस्मिन् वर्षे अस्माकं राष्ट्रं डा श्यामाप्रसादमुखर्जी महोदयस्य पञ्चविंशत्यधिकशततमीं जयन्तीम् आचरति।

प्रधानमन्त्री एक्स इति माध्यमे उभयोः केन्द्रशासितप्रदेशयोः अभूतपूर्वपरिवर्तनस्य उल्लेखं कृत्वा अवदत् यत् अधुना आधारसंरचनायाः व्यापकः विस्तारः अभवत्। शिक्षायां स्वास्थ्यसेवायाम् उद्यमितायां क्रीडाक्षेत्रे च अवसराः वर्धिताः। महिलाः स्युः अथवा समाजस्य सीमान्तवर्तिनः समुदायाः स्युः ये दशकान् यावत् स्वीयैः मूलभूतसंवैधानिकाधिकारैः वञ्चिताः आसन् ते भारतस्य संविधानस्य पूर्णप्रवर्तनात् सशक्तीकृताः अभवन्।

डा श्यामाप्रसादमुखर्जी महोदयस्य स्मरणं कुर्वन् तेन उक्तं यत् राष्ट्रैकतायाः प्रति तस्य आजीवनसमर्पणं पीढीः प्रेरयति। दशकपूर्वमेव तेन या कल्पना कृता सा अगस्तमासस्य पञ्चमे दिने २०१९ तमे वर्षे ऐतिहासिकरूपेण साकारिता अभवत्।

प्रधानमन्त्री पुनरेकवारं प्रतिपादितवान् यत् सर्वकारः जम्मूकश्मीरस्य लद्दाखस्य च प्रगत्यै पूर्णतया प्रतिबद्धः अस्ति। वयं इच्छामः यत् प्रत्येकस्मै नागरिकाय महान् स्वप्नान् द्रष्टुं तान् साकारयितुं विकसितभारतनिर्माणे योगदानं दातुं च अवसरः प्राप्येत।

गृहमन्त्रालयेन अपि एक्स इति माध्यमे प्रकाशिते सन्देशे उक्तं यत् अनुच्छेदस्य ३७० इत्यस्य अवरोधस्य निराकरणेन जम्मूकश्मीरे शान्तेः वातावरणम् उत्पन्नम्। अनुच्छेदस्य ३७० इत्यस्य निरसनानन्तरं कश्मीरे बहवः परिवर्तनाः अभवन्। अश्मप्रक्षेपणस्य घटनाः अतीतस्य विषयः जाताः। अनुच्छेदस्य ३७० इत्यस्य निरसनस्य सप्तवर्षाणाम् अनन्तरं कश्मीरे ऐतिहासिकाः उपलब्धयः प्राप्ताः।

मन्त्रालयस्य अनुसारेण २०२२ तमवर्षात् आरभ्य अश्मप्रक्षेपणस्य घटनाः प्रायः शून्याः अभवन्। २०२३ तमवर्षात् आरभ्य कश्चिदपि बन्दः न अभवत्। २०२४ तमे वर्षे अभिलेखीयसंख्यया त्रयोविंशतिकोटिपर्यटकाः आगताः। अष्टादश जी आई चिह्नाङ्कितानि हस्तशिल्पानि प्राप्तानि। चेनाबसेतुः सोनमर्गसुरङ्गा प्रथमः वन्देभारतयानप्रारम्भः प्रथमा वैद्युतरेलसेवा तथा कश्मीरस्य कृते अन्याः अपि अनेकाः ऐतिहासिकाः उपलब्धयः अस्मिन् काले अभवन्।

------------

Hindusthan Samachar / Dheeraj Maithani