राष्ट्रीय-शिक्षानीतिः २०२० तथा इतिहासः — समस्या:, अवसराः, समाधानानि च विषयकेन्द्रिता सङ्गोष्ठी आयोजिता
भागलपुरम्, ०५ अगस्तमासः (हि.स.)। तिलकामाञ्झी-भागलपुर-विश्व-विद्यालयस्य विश्वविद्यालय-इतिहास-विभागस्य तथा प्राचीनभारतीय-इतिहास-संस्कृति-पुरातत्त्व-विभागस्य संयुक्त-तत्त्वावधाने बुधवासरे विश्वविद्यालय-इतिहास-विभागे ‘राष्ट्रिय-शिक्षानीतिः २०२० तथा इति
संबोधित करते अतिथि


भागलपुरम्, ०५ अगस्तमासः (हि.स.)। तिलकामाञ्झी-भागलपुर-विश्व-विद्यालयस्य विश्वविद्यालय-इतिहास-विभागस्य तथा प्राचीनभारतीय-इतिहास-संस्कृति-पुरातत्त्व-विभागस्य संयुक्त-तत्त्वावधाने बुधवासरे विश्वविद्यालय-इतिहास-विभागे ‘राष्ट्रिय-शिक्षानीतिः २०२० तथा इतिहासः — समस्या:, अवसराः, समाधानानि च’ इति विषयमधिकृत्य सङ्गोष्ठी आयोजिता।

कार्यक्रमस्य अध्यक्षता विश्वविद्यालय-इतिहास-विभागस्य विभागाध्यक्षा प्रोफेसर अर्चना-कुमारी-साहा अकरोत्। सङ्गोष्ठ्यां विश्वविद्यालयस्य प्राचीनभारतीय-इतिहास-संस्कृति-पुरातत्त्व-विभागस्य विभागाध्यक्षः प्रोफेसर के. के. मण्डलः, इतिहास-विभागस्य डॉ. राजशेखरः, डॉ. मल्लिका-मञ्जरी, डॉ. राधिका-मिश्रा, डॉ. अंशुमान-सुमनः तथा प्राचीन-इतिहास-विभागस्य डॉ. पवन-शेखरः, डॉ. उमेश-तिवारी च सह उभयोः विभागयोः बहुसंख्यकाः शोधार्थिनः छात्राश्च उपस्थिताः आसन्।

कार्यक्रमे विषयस्य प्रस्तावनां कुर्वती डॉ. मल्लिका-मञ्जरी राष्ट्रिय-शिक्षानीतेः आलोकस्य पी.जी. पाठ्यक्रमस्य रूपरेखां, तस्य कार्यान्वयने सम्मुखीभवन्तीनां कठिनताः तथा तासां समाधानोपायान् च विषये चर्चाम् अकरोत्।

प्रोफेसर् के. के. मण्डलः राष्ट्रीय-शिक्षानीतेः विभिन्नानां प्रावधानानां चर्चा कुर्वन् उक्तवान् यत्, तदनुसारं इतिहास-विषयाय निर्मिते पाठ्यक्रमे इतिहास-लेखनस्य सर्वेषां धाराणां विभिन्नानां च भागानां मध्ये सन्तुलनस्य अभावः दृश्यते। अतः तस्मिन् आवश्यकसुधारस्य आवश्यकता अस्ति इति सः प्रतिपादितवान्।

डॉ. राधिका-मिश्रा उच्चशिक्षायां आलोचनात्मक-दृष्टेः विकासस्य आवश्यकतां प्रतिपाद्य राष्ट्रिय-शिक्षानीतौ तस्याः समन्वयस्य आवश्यकता अस्ति इति बलं दत्तवती।

डॉ. पवन-शेखरः राष्ट्रिय-शिक्षानीतेः उद्देश्यानां पूर्तये आवश्यकायाः आधारभूत-संरचनायाः तथा तकनीकी-प्रशिक्षणस्य आवश्यकतां प्रतिपादितवान्। डॉ. उमेश-तिवारी कौशलविकासाय छात्रेभ्यः विषयसम्बद्धस्य तकनीकी-प्रशिक्षणस्य आवश्यकता अस्ति इति बलं दत्तवान्। डॉ. अंशुमान-सुमनः सर्वेषां छात्राणां मध्ये आधुनिक-प्रौद्योगिक्याः उपकरणानां च ज्ञानस्य प्रसारस्य आवश्यकता अस्ति इति प्रतिपादितवान्।

अध्यक्षीयभाषणे विभागाध्यक्षा प्रो. अर्चना-कुमारी-साहा राष्ट्रिय-शिक्षानीतेः २०२० अन्तर्गतं इतिहासविषयस्य उच्चशिक्षायां पठन-पाठने पाठ्यक्रमे च अभवद्भिः परिवर्तनैः सह उपस्थितान् परिचितवती। राष्ट्रिय-शिक्षानीतौ समाविष्टानां बहूनाम् अवसरानां लाभं छात्रैः शिक्षकैश्च स्वीकर्तव्यं इति सा उक्तवती। अल्पसंसाधनानाम् आवश्यक-आधारभूत-संरचनायाः च अभावेऽपि सामूहिकप्रयत्नेन तस्याः नीत्याः उद्देश्यानां प्राप्तये दलकार्यभावनया कार्यं कर्तुं सा बलं दत्तवती।

अन्ते सा सङ्गोष्ठ्याम् उपस्थितेभ्यः सर्वेभ्यः शिक्षकभ्यः छात्रेभ्यश्च धन्यवादं ज्ञापितवती तथा छात्राणां उज्ज्वल-भविष्यस्य कामनां कृतवती।

Hindusthan Samachar / Divya Ranjan