तेलंगानायाः मुख्यमंत्री रेवंत रेड्डी अकरोत् जल शक्ति मंत्रिणा सह मेलनम्
नव दिल्ली, 05 अगस्तमासः (हि.स.)।तेलङ्गानाराज्यस्य मुख्यमन्त्री ए. रेवन्तरेड्डी बुधवासरे अत्र केन्द्रीयजलशक्तिमन्त्री सीआर पाटिल इत्यनेन सह समभेटत्। अस्मिन् अवसरे सः तुम्मिदिहेट्टीबैराजस्य प्रस्तावितोन्नतिसम्बद्धे महाराष्ट्रतेलङ्गानयोः मध्ये दीर्घका
तेलंगाना के मुख्यमंत्री ए रेवंत रेड्डी केंद्रीय जल शक्ति मंत्री सीआर पाटिल के साथ (फाइल फोटो)।


नव दिल्ली, 05 अगस्तमासः (हि.स.)।तेलङ्गानाराज्यस्य मुख्यमन्त्री ए. रेवन्तरेड्डी बुधवासरे अत्र केन्द्रीयजलशक्तिमन्त्री सीआर पाटिल इत्यनेन सह समभेटत्। अस्मिन् अवसरे सः तुम्मिदिहेट्टीबैराजस्य प्रस्तावितोन्नतिसम्बद्धे महाराष्ट्रतेलङ्गानयोः मध्ये दीर्घकालात् प्रवर्तमानस्य विवादस्य समाधानार्थं केन्द्रसरकारस्य हस्तक्षेपम् अयाचत्। तेन महाराष्ट्रसरकारेण सह वार्तां कृत्वा बैराजस्य उन्नतिं १५० मीटरपर्यन्तं स्वीकर्तुम् अनुरोधः कृतः।

सूत्राणां अनुसारेण उपवेशने तेलङ्गानस्य सिंचनमन्त्री एन. उत्तमकुमाररेड्डी तथा राज्यस्य बहवः सांसदाः अपि उपस्थिताः आसन्। उपवेशनकाले मुख्यमन्त्री केन्द्रीयमन्त्रिणे अवदत् यत् तेलङ्गानसरकारः तुम्मिदिहेट्टीबैराजस्य निर्माणं १५० मीटरोन्नत्यां कर्तुम् इच्छति, यदा तु महाराष्ट्रसरकारेण कथञ्चित् केवलं १४८ मीटरमितोन्नत्यै एव सम्मतिः प्रदत्ता अस्ति। तेन उक्तं यत् अस्य मतभेदस्य कारणात् परियोजना अग्रे नेतुं न शक्यते।

रेड्डी जलशक्तिमन्त्रिणम् अनुरोधं कृतवान् यत् सः उभयराज्ययोः मध्ये समन्वयं स्थापयित्वा अस्य विवादस्य शीघ्रं समाधानं कुर्यात्, येन परियोजनायाः कार्यम् अग्रे प्रवर्तितुं शक्येत्। तेन उक्तं यत् एषा परियोजना राज्यस्य सिंचनावश्यकतानां कृते अत्यन्तं महत्त्वपूर्णा अस्ति तथा अस्याः विलम्बेन विकासकार्याणि प्रभावितानि भवन्ति।

------------

Hindusthan Samachar / Dheeraj Maithani