Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 05 अगस्तमासः (हि.स.)। ग्रामीणक्षेत्रेषु स्वच्छतायै नूतनां दिशं प्रदातुं पर्यावरणसंरक्षणं च सुदृढं कर्तुं स्वच्छभारतमिशन ग्रामीणस्य बस्तरजिलापञ्चायत्या महत्त्वपूर्णः प्रयत्नः क्रियते। गुरुवासरे षष्ठे अगस्तमासे बस्तरजिलापञ्चायतस्य सभागारे ठोसअपशिष्टप्रबन्धननियमाः २०२६ इत्यस्य प्रभाविक्रियान्वयनार्थम् एकदिवसीयस्य गहनप्रशिक्षणकार्यक्रमस्य आयोजनं क्रियते।
अस्मिन् विशेषप्रशिक्षणकार्यक्रमे जनपदस्य चयनितानां एकविंशतिः ग्रामपञ्चायतीनां सरपञ्चाः उपसरपञ्चाः सचिवाः स्वच्छताग्राहिणः च विशेषरूपेण आमन्त्रिताः सन्ति यथा ते स्वस्वक्षेत्रेषु स्वच्छतायाः उत्तरदायित्वं दृढतया वहेयुः।
प्रशिक्षणकार्यक्रमस्य मुख्योद्देश्यः ग्रामपञ्चायतीषु वैज्ञानिकां सततां च ठोसअपशिष्टप्रबन्धनव्यवस्थां सुदृढां कर्तुं तथा अपशिष्टस्य सङ्ग्रहणस्थले एव अर्थात् गृहेभ्यः संस्थाभ्यश्च पृथक् पृथक् वर्गीकरणस्य अभ्यासनिर्माणं प्रोत्साहयितुं च अस्ति। अस्यां कार्यशालायां स्वच्छभारतमिशन ग्रामीण छत्तीसगढस्य राज्यपरामर्शदात्री श्रीमती मधुरिमा महेन्द्रगिरिः मुख्यवक्त्रीरूपेण उपस्थिता भविष्यति। सा उपस्थितेभ्यः जनप्रतिनिधिभ्यः स्वच्छताकर्मिभ्यश्च ठोसअपशिष्टप्रबन्धननियमाः २०२६ इत्यस्य प्रमुखप्रावधानानि पञ्चायतीनां भूमिका दायित्वानि च तथा शुष्क आर्द्र हानिकारक सानिटरी इति चतुर्विधानाम् अपशिष्टानां सम्यक् पृथक्करणविषये विस्तृतां सूचनां प्रदास्यति।
एतेन सह कार्यशालायां गृहात् गृहं अपशिष्टसङ्ग्रहणस्य सुव्यवस्थितव्यवस्था उपयोगकर्तृशुल्कनिर्धारणम् ग्रामपञ्चायतस्तरे उपविधानानां निर्माणं पालनं च इत्येषु विषयेषु अपि गम्भीरचर्चा भविष्यति। अनेन एकदिवसीयप्रशिक्षणेन प्रतिभागिनः स्वस्वग्रामपञ्चायतीषु नियमानां दृढतया प्रभावशीलतया च पालनं सुनिश्चितं कर्तुं प्रेरिताः भविष्यन्ति यथा बस्तरस्य ग्रामीणाञ्चलाः स्वच्छाः सुन्दराः सततविकासस्य नूतनान् आयामान् स्थापयितुं समर्थाः भवेयुः।
---------------
Hindusthan Samachar / Dheeraj Maithani