पं. जनेश्वर मिश्रस्य विचारैः चलित्वा 2027 तमे वर्षे सपासर्वकारः निर्मास्यते - राकेश मौर्यः
जौनपुरम्, 05 अगस्तमासः (हि.स.)। समाजवादीपक्षस्य राष्ट्रियाध्यक्षस्य पूर्वमुख्यमन्त्रिणः अखिलेशयादवस्य निर्देशानुसारं समाजवादीपक्षस्य जौनपुरजनपदशाखया बुधवासरे पक्षस्य पूर्वराष्ट्रीयोपाध्यक्षस्य पूर्वराज्यसभासदस्यस्य पण्डितजनेश्वरमिश्रस्य चतुर्नवतितम
पंडित जनेश्वर मिश्र को श्रद्धांजलि अर्पित करते हुए सपा जिलाध्यक्ष राकेश मौर्य  और अन्य पदाधिकारी


जौनपुरम्, 05 अगस्तमासः (हि.स.)। समाजवादीपक्षस्य राष्ट्रियाध्यक्षस्य पूर्वमुख्यमन्त्रिणः अखिलेशयादवस्य निर्देशानुसारं समाजवादीपक्षस्य जौनपुरजनपदशाखया बुधवासरे पक्षस्य पूर्वराष्ट्रीयोपाध्यक्षस्य पूर्वराज्यसभासदस्यस्य पण्डितजनेश्वरमिश्रस्य चतुर्नवतितमा जयन्ती जिलाकार्यालये श्रद्धापूर्वकम् आचरिता। कार्यक्रमस्य अध्यक्षतां जिलाध्यक्षः राकेशमौर्यः अकरोत्। अस्मिन्नवसरे पक्षस्य नेतारः कार्यकर्तारः च पण्डितजनेश्वरमिश्रस्य चित्रे पुष्पाणि समर्प्य श्रद्धाञ्जलिम् अर्पितवन्तः। ततः अनन्तरम् आयोजितायाः गोष्ठ्याः सञ्चालनं जिलामहासचिवः आरिफहबीबः अकरोत्।

गोष्ठीं सम्बोधयन् जिलाध्यक्षः राकेशमौर्यः अवदत् यत् पण्डितजनेश्वरमिश्रः समाजवादीविचारधारायाः प्रखरचिन्तकः संघर्षशीलः नेता च आसीत् तथा दरिद्राणां कृषकाणां श्रमिकाणां वञ्चितवर्गस्य च सशक्तः स्वरः आसीत्। तेन स्वसमग्रजीवनं सामाजिकन्यायाय समाजवादीमूल्येभ्यश्च समर्पितम्। तस्य विचाराः अद्यापि समाजवादिनां कृते प्रेरणास्रोतः सन्ति। तेन उक्तं यत् तस्य आदर्शान् जनजनपर्यन्तं प्रसारयितुमेव तस्मै सच्ची श्रद्धाञ्जलिः भविष्यति।

अस्मिन्नवसरे उपस्थितैः नेतृभिः कार्यकर्तृभिश्च पण्डितजनेश्वरमिश्रस्य विचारान् अनुसर्तुं तथा वर्षे २०२७ तमे समाजवादीपक्षस्य सर्वकारं स्थापयितुं अखिलेशयादवं पुनः मुख्यमन्त्रिणं कर्तुं च संकल्पः कृतः।

कार्यक्रमे पूर्वविधायकः लालबहादुरयादवः मोहम्मदअरशदखानः डा अवधनाथपालः हिसामुद्दीनशाहः रमापतियादवः इत्यादयः अनेकाः नेतारः सम्बोधनम् अकुर्वन्। अन्ते प्रदेशकार्यकारिणीसदस्यस्य रामलालपालस्य परिजनानां सहितम् अन्येषां दिवङ्गतानां जनानां स्मृत्यर्थं निमेषद्वयस्य परिमितं मौनम् आचरित्वा श्रद्धाञ्जलिः अर्पितः।-----------

Hindusthan Samachar / Dheeraj Maithani