दलितयुवविकासविरोधी सपादलस्य सदने आचरणं लज्जास्पदम् : योगी आदित्यनाथः
लखनऊ, 05 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य विधानमण्डलस्य वर्षाकालीनसत्रे बुधवासरे अपि कोलाहलः घोषवाक्यप्रचारः च निरन्तरम् अभवत्। सदने समाजवादीपक्षस्य सपा इत्यस्य कोलाहलस्य विरोधस्य च विषये असन्तोषं प्रकटयन् मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत्
VS-UP-CM-YOGI-CODEINE


लखनऊ, 05 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य विधानमण्डलस्य वर्षाकालीनसत्रे बुधवासरे अपि कोलाहलः घोषवाक्यप्रचारः च निरन्तरम् अभवत्।

सदने समाजवादीपक्षस्य सपा इत्यस्य कोलाहलस्य विरोधस्य च विषये असन्तोषं प्रकटयन् मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् समाजवादीपक्षः लोकतन्त्रविरोधी दलितविरोधी समाजविरोधी च अस्ति।

तस्य विकासेन सह किमपि सम्बन्धः नास्ति। अत एव अनुपूरकबजटस्य चर्चायां विकासविषये किमपि न वदति। किन्तु भारतीयजनतापक्षस्य भाजपा इत्यस्य सर्वकारस्य प्रतिबद्धता विकासाय एव अस्ति भविष्यति च।

मुख्यमन्त्री योगी आदित्यनाथः माध्यमप्रतिनिधिभिः सह संवादं कुर्वन् समाजवादीपक्षं विकासविरोधिनं युवाविरोधिनं महिलाविरोधिनं लोकतन्त्रविरोधिनं च निरूपितवान्।

तेन उक्तं यत् प्रदेशसर्वकारेण एकोनषष्टिसहस्रकोटिरूप्यकेभ्यः अधिकस्य राशेः अनुपूरकबजटम् उपस्थापितम्। किन्तु अस्मिन्नपि समाजवादीपक्षेण नानाविधानि विघ्नानि सृष्टानि। यद्यपि अस्मिन् अनुपूरकबजटे आङ्गनवाडीकार्यकर्तृणां पाककर्तृणां कोटेदाराणां चौकीदाराणाम् आशाकार्यकर्तृणां च मानधनवृद्धेः तथा द्रुतमार्गनिर्माणसम्बद्धाः प्रस्तावाः आसन्। अनेन समाजस्य सर्वेषां जनानां विकासः भविष्यति।

एतावता एव न अपितु अस्मिन् अनुपूरकबजटे संविधाननिर्मातुः डा भीमराव अम्बेडकरस्य सन्तरविदासस्य समाजसुधारकस्य ज्योतिबाफुले लोकमाता अहिल्याबाई इत्यादीनां प्रतिमानां स्थापनायै संरक्षणाय परिसीमाप्राचीरनिर्माणाय च आवश्यकधनस्य व्यवस्था अपि कृता अस्ति। तथापि समाजवादीपक्षस्य सदस्यैः सदने स्वीयं दलितविरोधिस्वरूपं प्रदर्शितं यत् तेषां प्रति एतेषां महापुरुषाणां सम्मानभावः नास्ति।

विधानसभासदनात् बहिः माध्यमप्रतिनिधिभिः सह संवादं कुर्वन् मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् समाजवादीपक्षेण प्रदेशस्य सहस्रशः शिक्षामित्राणां मानधनवृद्धौ अपि विघ्नाः उत्पन्नाः। किन्तु अस्माकं सर्वकारेण मानधनं वर्धयित्वा अष्टादशसहस्ररूप्यकाणि कृतानि तथा अनुदेशकानाम् अपि मानधनं वर्धितम्। एवमेव अनुपूरकबजटे प्रदेशस्य विकासेन सह विभिन्नैः जनप्रतिनिधिभिः प्रदत्तानां सुझावानां कार्याणां च आधारेण योजनाः प्रस्तावाश्च समावेशिताः। किन्तु समाजवादीपक्षः विकासविरोधी लोकतन्त्रविरोधी च अस्ति। वयं प्रदेशस्य जनतां आश्वासयामः यत् समाजवादीपक्षस्य विकासविरोधिवृत्तेः अपि डबलइञ्जिनसर्वकारः निरन्तरं प्रदेशस्य विकासाय कार्यं करिष्यति तथा विकासकार्येषु कस्यापि प्रकारस्य न्यूनता न भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani