नीलकण्ठ-धाम्नि श्रद्धायाः तरंग:, दश-लक्षाधिकैः श्रद्धालुभिः जलाभिषेकः कृतः
पौडी-गढवालम्, ०५ अगस्तमासः (हि.स.)। श्रावणमासस्य कांवड्-यात्रायाः अवसरे श्रीनीलकण्ठ-महादेव-धाम्नि श्रद्धायाः अभूतपूर्वः जनतरंग: दृश्यते। देशस्य विभिन्नेभ्यः भागेभ्यः आगतैः शिवभक्तैः कृतस्य “हर-हर-महादेव” इति जयघोषस्य नादेन सम्पूर्णं धाम शिवमयं जातम
पौड़ी के श्री नीलकंठ महादेव धाम में उमड़ा जन सैलाब


पौडी-गढवालम्, ०५ अगस्तमासः (हि.स.)। श्रावणमासस्य कांवड्-यात्रायाः अवसरे श्रीनीलकण्ठ-महादेव-धाम्नि श्रद्धायाः अभूतपूर्वः जनतरंग: दृश्यते। देशस्य विभिन्नेभ्यः भागेभ्यः आगतैः शिवभक्तैः कृतस्य “हर-हर-महादेव” इति जयघोषस्य नादेन सम्पूर्णं धाम शिवमयं जातम्। अधुना यावत् १० लक्षाधिकाः ४० सहस्रं श्रद्धालवः बाबा-नीलकण्ठ-महादेवस्य दर्शनं कृत्वा जलाभिषेकं कृतवन्तः।

श्रद्धालूनां निरन्तरं वर्धमानायाः सङ्ख्यायाः अभावेऽपि आरक्षकवाभाग-प्रशासनयोः व्यापक-व्यवस्थानां कारणेन यात्रा शान्तिपूर्णतया, सुरक्षितरूपेण सुव्यवस्थिततया च सञ्चालिता भवति। यात्रा-मार्गेषु, वाहन-स्थापन-स्थलेषु, पदमार्गेषु मन्दिर-परिसरे च सुरक्षायाः कठोराः व्यवस्थाः कृताः सन्ति। जनसमूह-नियन्त्रणं, सुचारु-यातायातः, आपत्कालीन-सहायता, ड्रोन-माध्यमेन तथा सीसीटीवी-माध्यमेन निरीक्षणम् इत्यादिभिः सम्पूर्णस्य यात्रा-क्षेत्रस्य निरन्तरं निरीक्षणं क्रियते।

यात्रायाः समये आरक्षकविभाग-कर्मचारिणां संवेदनशीलतया कृतं कार्यमपि जनानां विश्वासं विजितवती अस्ति। लब्ध-विलब्ध-केन्द्रेषु विभिन्नेषु कर्तव्य-बिन्दुषु च नियुक्तैः आरक्षक-विभाग-कर्मचारिभिः तत्परतां प्रदर्शयद्भिः जनसमूहे पृथग्भूताः ५० तः अधिकाः श्रद्धालवः, येषु महिलाः, वृद्धाः बालकाश्च सम्मिलिताः, सुरक्षिततया अन्विष्य तेषां परिजनैः सह मेलिताः।

श्रावणमासे नीलकण्ठ-धाम्नि आगता एषा श्रद्धा न केवलं श्रद्धालूनाम् अखण्ड-भक्तेः प्रतीकरूपेण दृश्यते, अपितु पुलिस-प्रशासनयोः प्रभावी-व्यवस्थानां उत्कृष्टम् उदाहरणमपि प्रस्तौति।

Hindusthan Samachar / Divya Ranjan