Enter your Email Address to subscribe to our newsletters

हुगली, ०५ अगस्तमासः (हि.स.)। वीबी-जी राम-जी-कार्यक्रमस्य प्रभावी-क्रियान्वयनं प्रति बुधवासरे जिराट-खण्ड-विकासाधिकारिणः कार्यालये महत्त्वपूर्णा समन्वय-सभा आयोजिता। सभायां खण्डस्य सर्वासां पञ्चायतानां एनएस-प्रतिनिधयः सहभागितां कृतवन्तः।
सभायां कार्यक्रमस्य विभिन्नानां पक्षाणां, कार्य-योजनायाः, दायित्वानां विभाजनस्य तथा निर्धारित-समयसीमायाः अन्तः सर्वेषां कार्याणां सम्पादनस्य रणनीतेः विषये विस्तरेण चर्चा कृता। सहैव विभिन्न-विभागानां पञ्चायत-स्तरीयाधिकारिणां च मध्ये उत्तम-समन्वयं स्थापयित्वा योजनायाः लाभं अधिकाधिकेभ्यः जनेभ्यः प्रापयितुं विशेषं बलं दत्तम्।
प्रशासनस्य पक्षतः उक्तं यत् वीबी-जी राम-जी-कार्यक्रमस्य अन्तर्गतं सर्वाणि कार्याणि पारदर्शीतया उत्तरदायित्वेन च सम्पन्नानि क्रियन्ताम्। एतदर्थं पञ्चायत-स्तरात् आरभ्य प्रशासनस्य विभिन्नेषु स्तरेषु समन्वयं अधिकं सुदृढं कर्तुं आवश्यकता अस्ति इति बलं दत्तम्।
सभायां स्पष्टं कृतं यत् अस्य प्रयत्नस्य मुख्योद्देश्यं सर्वकारीय-सेवानां योजनानां च लाभं सामान्यजनाय शीघ्रतया प्रभावीरूपेण च प्रापयितुम् अस्ति। अधिकारिभिः सर्वेभ्यः सम्बन्धित-कर्म-चारिभ्यः परस्पर-सहयोगेन समन्वयेन च कार्यक्रमं सफलं कर्तुं आह्वानं कृतम्।
Hindusthan Samachar / Divya Ranjan