Enter your Email Address to subscribe to our newsletters

कोलकाता, 05 अगस्तमासः (हि.स.)।
निर्वासिता बाङ्ग्लादेशी लेखिका तसलीमानसरीन अवदत् यत् सा विगतद्वात्रिंशद्वर्षेभ्यः निर्वासनजीवनं यापयति तथा अद्यापि स्वदेशं बाङ्ग्लादेशं प्रत्यागन्तुम् इच्छति। सहैव तया अपदस्था पूर्वप्रधानमन्त्री शेखहसीना अपि लोकतान्त्रिकाधिकारानुसारं बाङ्ग्लादेशं प्रत्यागत्य राजनीतिं कर्तुं अनुमतिं प्राप्नुयादिति अपेक्षा व्यक्ता।
बुधवासरे प्रातः कोलकातानगरात् प्रस्थानात् पूर्वं नेताजीसुभाषचन्द्रबोसअन्तरराष्ट्रीयविमानस्थानके पत्रकारैः सह वार्तालापे तसलीमा अवदत्, “अहं द्वात्रिंशद्वर्षेभ्यः निर्वासने वर्ते। अहं बाङ्ग्लादेशं प्रत्यागन्तुम् इच्छामि, किन्तु मां प्रत्यागन्तुं न अनुमन्यते।”
अस्मात् पूर्वं मङ्गलवासरे पानीहाटीस्थे बेगमरोकेयायाः समाधिस्थले श्रद्धाञ्जलिं समर्प्य तसलीमा अवदत् यत् बाङ्ग्लादेशसरकारेण शेखहसीनायाः पक्षे आरोपितः प्रतिबन्धः अपसारयितव्यः। तया उक्तं यत् अहं इच्छामि यत् शेखहसीना स्वदेशं प्रत्यागच्छेत् तथा तस्यै राजनीतिं कर्तुं अधिकारः प्रदीयेत।
बाङ्ग्लादेशे लोकतन्त्रस्य विषये भाषमाणा तसलीमा अवदत् यत् लोकतान्त्रिकव्यवस्थायां सर्वेषां राजनैतिकदलानां कार्यकरणस्य स्वमतप्रकाशनस्य च स्वतन्त्रता भवितव्या। तथापि तया एतदपि स्पष्टीकृतं यत् सा धर्माधारितराजनीतेः विरोधिनी अस्ति तथा तस्याः मते एतादृशी राजनीति प्रायः महिलानामधिकाराणां प्रतिकूला भवति।
बेगमरोकेयायै श्रद्धाञ्जलिं समर्पयन्ती तसलीमा तां प्रगतिशीलां कट्टरपन्थविरोधिनीं च लेखिकां कथितवती। तया उक्तं यत् १९३२ तमे वर्षे तस्याः निधनानन्तरं मुस्लिमकट्टरपन्थिनः कोलकातानगरे तस्याः समाधिं कर्तुं विरोधम् अकुर्वन्, ततः पानीहाट्यां कस्यचित् प्रगतिशीलस्य व्यक्तेः निजभूमौ रात्रौ तस्याः अन्त्येष्टिः कृता।
तसलीमा एतदपि अवदत् यत् बाङ्ग्लादेशसरकारः तस्याः पासपोर्टस्य नवीकरणं न करोति तथा तस्याः स्वीडिशपासपोर्टे अपि बाङ्ग्लादेशस्य प्रवेशानुमतिपत्रं न प्रदीयते। अतः स्वदेशं प्रत्यागन्तुं तस्याः समीपे किमपि वैधं शासकीयदस्तावेजं नास्ति।
प्रायः एकोनविंशतिवर्षाणामनन्तरं भारतमागता तसलीमानसरीन अवदत् यत् सा सम्प्रति भारते एव स्थास्यति। तया कोलकाताप्रवासः स्मरणीय इति कथयन्त्या उक्तं यत् अत्र जनैः तस्यै एतावत् स्नेहः प्रदत्तः यत् तस्याः नेत्रे अश्रुभ्यां पूर्णे अभवताम्। तया अक्टोबरमासे, जनवरीमासे तथा कोलकातापुस्तकमेलाकाले पुनरागमनस्य इच्छा अपि व्यक्ता।
तसलीमानसरीन ३१ जुलै दिनाङ्के सेक्युलरमिशन तथा अन्ययोः द्वयोः संस्थयोः निमन्त्रणेन कोलकाताम् आगता आसीत्। तस्याः सम्पूर्णप्रवासकाले कठोरसुरक्षाव्यवस्था आसीत्। तया स्वागते आतिथ्ये च आयोजकेभ्यः कृतज्ञता अपि व्यक्ता।
---------------
Hindusthan Samachar / Dheeraj Maithani