Enter your Email Address to subscribe to our newsletters

सोनीपत, ०५ अगस्तमासः (हि.स.)। सन्त-शिरोमणि-श्रीगुरु-रविदासस्य जन्मस्थलं सीर-गोवर्धनपुरं, वाराणसीतः पवित्र-मृत्तिकया युक्ता कलश-वन्दन-यात्रा मङ्गलवासरे सायंकाले गोहानां प्राप्तवती। मुख्यमन्त्रिणा नायबसिंह-सैनी-महोदयेन गुरुग्रामतः प्रस्थापिता यात्रा गोहानायाः डॉ.अम्बेडकर-चत्वरे मन्त्रिमण्डल-सदस्यस्य डॉ.-अरविन्द-शर्मणः नेतृत्वे भाजपाकार्यकर्तृभिः, सामाजिक-सङ्गठनैः, बहुसङ्ख्यकैः श्रद्धालुभिश्च स्वागतिता। श्रद्धालुभिः पवित्र-कलशस्य वन्दनं कृत्वा सन्त-शिरोमणि-श्रीगुरु-रविदासस्य चरणयोः श्रद्धासुमनांसि समर्पितानि। ततः यात्रा रविदास-मन्दिरं प्राप्य सम्पन्ना।
यात्रायाः गोहानां प्राप्तिमात्रेण सम्पूर्णं वातावरणं भक्तिमयं जातम्।
श्रद्धालुभिः गुरु-रविदासस्य जयघोषाः कृताः तथा सामाजिक-समरसतायाः सन्देशः प्रदत्तः। मन्त्रिमण्डल-सदस्यः डॉ. अरविन्द-शर्मा अवदत् यत् गुरु-रविदासः स्वजीवनेन विचारैश्च समाजं जाति-पाति-भेदात्, उच्च-नीच-भावनायाः तथा भेदभावात् उपरि उत्थाय मानवतायाः, समानतायाः भ्रातृत्वस्य च मार्गं दर्शितवान्। तस्य विचाराः अद्यापि समाजं संयोजयितुं समरसतां स्थापयितुं च प्रेरणां यच्छन्ति। सः अवदत् यत् जन्मस्थलस्य पवित्र-मृत्तिकया युक्तस्य कलशस्य सम्पूर्ण-प्रदेशे वन्दनं सर्वेषां कृते गौरवस्य विषयः अस्ति।
प्रदेशस्य मन्त्रीमण्डल-सदस्यः डॉ. अरविन्द-शर्मा अवदत् यत् एषा कलश-वन्दन-यात्रा केवलं धार्मिकः कार्यक्रमः न, अपितु गुरु-रविदासस्य समानतायाः, भ्रातृत्वस्य मानवतायाश्च सन्देशं जनं जनं प्रति प्रापयितुम् एकं माध्यमम् अपि अस्ति। सः जनान् गुरु-रविदासस्य आदर्शान् स्वीकृत्य सामाजिक-समरसतां सुदृढां कर्तुं आह्वानं कृतवान्। भाजपायाः जनपदाध्यक्षः विजेन्द्र-मलिकः अवदत् यत् यात्रायाः स्वागतं प्रति कार्यकर्तृषु श्रद्धालुषु च विशेषः उत्साहः आसीत्।
कार्यक्रमे प्रदेशस्य जनपदस्य च पदाधिकारिणः, विभिन्न-मोर्चानां प्रकोष्ठानां च पदाधिकारिणः, शक्ति-केन्द्र-प्रमुखाः, मतदान-केन्द्राध्यक्षाः, जन-प्रतिनिधयः तथा सामाजिक-सङ्गठनानां प्रतिनिधयश्च सहभागितां कृतवन्तः। अध्यक्षः भूपेन्द्र-मुद्गिलः, सुमित-कक्कडः, संजय-दहिया, डॉ. विजेन्द्र-खिची, जस्सी-खुराना, महेन्द्र-चिडाना, अरुण-निनानिया, कुलदीप-कौशिकः, विनोद-शर्मा, महाबीर-सभरवालः, ऋषि-सभरवालः, तिलक-राजः, सतीश-उहलाना, जितेन्द्र-शर्मा, बलबीर-धानिया, बीना-सभरवालः, प्रसन्नी-देवी इत्यादयः श्रद्धालवः कार्यकर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan