Enter your Email Address to subscribe to our newsletters

हरिद्वारम्,05 अगस्तमासः (हि.स.)। कांवडमेले स्वास्थ्यविभागस्य चिकित्सीयचलएककानि एमएमयू शिवभक्तानां कृते वरदानसदृशानि सिद्धानि भवन्ति। कांवडमार्गे रणनीतिकस्थानेषु नियुक्ताभिः पञ्च चिकित्सीयचलएककैः अद्यावधि प्रायः सप्तसहस्रं कांवडयात्रिकेभ्यः स्थल एव प्राथमिकचिकित्सा चिकित्सीयसहायता च प्रदत्ता अस्ति।
मुख्यचिकित्साधिकारी डा आर के सिंह अवदत् यत् अस्मिन् वर्षे प्रथमवारं स्वास्थ्यविभागेन पञ्च चिकित्सीयचलएककानां सञ्चालनम् आरब्धम्। एतानि एककानि मंगलौरे बहादराबाद शुल्कप्राङ्गणे शङ्कराचार्यचतुष्पथे होटल प्रमिला अलकनन्दा होटल तथा राजमार्गस्थे चतुर्थबिन्दौ नियुक्तानि सन्ति। प्रत्येकम् एककं प्रतिदिनं प्रातः नववादनतः सायं पञ्चवादनपर्यन्तं सेवां प्रददाति। अनेन यात्राकाले रुग्णेभ्यः अथवा आहतश्रद्धालुभ्यः तत्कालमेव चिकित्सा प्राप्यते।
तेन उक्तं यत् प्रत्येकस्मिन् चिकित्सीयचलएकके प्रशिक्षितः चिकित्सकः औषधवितरकः प्रयोगशालातन्त्रज्ञः परिचारिकावर्गः च सहितः पञ्चसदस्यीयः दलः नियुक्तः अस्ति। एतेषु एककेषु प्राथमिकचिकित्सा आवश्यकौषधानि प्राणवायुः वहनशय्या आधारभूतपरीक्षणस्य सुविधा च उपलब्धा अस्ति। यदि कश्चित् रोगी गम्भीरावस्थायां प्राप्यते तर्हि तस्य तत्कालं उच्चचिकित्साकेन्द्रे प्रेषणस्य व्यवस्था अपि कृता अस्ति।
तेन उक्तं यत् एतेषां चलएककानां सञ्चालनस्य निरन्तरम् अनुवीक्षणं कांवडमेलस्य स्वास्थ्यनोडलाधिकारी डा राजेश गुप्तेन क्रियते। येन कस्यापि श्रद्धालोः चिकित्सार्थं तत्कालं चिकित्सीयसहायता प्रदातुं शक्यते।
मुख्यचिकित्साधिकारी डा आर के सिंह कांवडयात्रिकान् प्रति अपीलम् अकरोत् यत् यात्राकाले पर्याप्तमात्रया जलं पिबन्तु अतिश्रमस्य अनुभवे विश्रामं कुर्वन्तु तथा कस्यापि स्वास्थ्यसमस्यायाः उत्पन्नायां समीपस्थं चिकित्सीयचलएककं स्वास्थ्यशिविरं वा शीघ्रं सम्पर्कयन्तु। स्वास्थ्यविभागः पूर्णप्रतिबद्धतया श्रद्धालूनां सेवायां निरतः अस्ति।
Hindusthan Samachar / Dheeraj Maithani