Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 05 अगस्तमासः (हि.स.)।श्रावणमासस्य कांवडयात्रायाः अवसरस्य शिवभक्तानां कांवडियात्रिकाणां सेवोद्देशेन भारतीयकिसानयूनियनसर्वसंस्थया ज्वालापुरस्थिते कांवडपटरीमार्गे निःशुल्कौषधफलवितरणशिविरस्य आयोजनम् अभवत्। शिविरस्य शुभारम्भः विधायकः आदेशचौहानः तथा महापौरा किरणजैसल संयुक्तरूपेण फीता छित्त्वा अकुरुताम्।
विधायकः आदेशचौहानः भारतीयकिसानयूनियनसर्वसंस्थायाः सेवाकार्यस्य प्रशंसां कुर्वन् अवदत् यत् कांवडयात्राकाले लक्षशः श्रद्धालवः दीर्घदूरं पदयात्रां कुर्वन्ति, येन ते श्रमेण सह कदाचित् आघातैः अन्यैश्च स्वास्थ्यसम्बद्धसमस्याभिः पीड्यन्ते। तादृशे समये मार्गमध्ये निःशुल्कौषधप्रदानस्य तथा प्राथमिकोपचारस्य सुविधा कांवडियात्रिकेभ्यः महतीं राहतिं प्रददाति।
तेन उक्तं यत् प्रदेशसरकारः कांवडयात्रां सुरक्षितां सुव्यवस्थितां च कर्तुं पूर्णगम्भीरतया कार्यं करोति तथा मुख्यमन्त्री पुष्करसिंहधामी स्वयं यात्रायाः व्यवस्थासु निरन्तरं निरीक्षणं करोति।
महापौरा किरणजैसल अवदत् यत् कांवडियात्रिकाणां सेवा पुण्यकर्म अस्ति तथा तेन भगवान् शिवस्य विशेषकृपा प्राप्यते। तया उक्तं यत् वर्षे द्विवारम् आयोजिते कांवडमेलायां कोटिशः श्रद्धालवः धर्मनगरीं हरिद्वारम् आगच्छन्ति। तादृशे समये विविधाभिः सामाजिकसंस्थाभिः सेवाशिविराणि स्थाप्य श्रद्धालूनां सहायता क्रियमाणा अत्यन्तं प्रशंसनीया पहल अस्ति। शिविरे कांवडियात्रिकेभ्यः निःशुल्कौषधानि, प्राथमिकोपचारः तथा ताजानि फलानि वितरितानि।
अस्मिन् अवसरे सत्यनारायणशर्मा, रश्मीचौधरी, राजेशरस्तोगी, अनिलशर्मा, आदित्यनागर, जसविन्दरसिंह, गोविन्दसिंह, नवीनतेश्वर, प्रमोदराठौर, कुलदीपविश्नोई, डॉ. अविनाश, राजीवथपलियाल, ताहिरहसन, नीतूसिंह, रूबी, गोपालभारद्वाज, धर्मेशपाल, आकाशशुक्ल, अरुणा इत्यादयः कार्यकर्तारः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani