बसपा-विधायकः उमाशङ्करसिंहः मायावत्याः रक्षाबन्धनदिने रक्षासूत्रं प्राप्नोति स्म
बलिया, ०६ अगस्तमासः (हि.स.)। उमाशङ्करसिंहः बहुजनसमाजपक्षस्य अध्यक्षा मायावत्याः अत्यन्तं विश्वस्तः आसीत्। बसपा-सर्वोच्चनेत्र्या सामाजिक-माध्यमेषु प्रकाशितेन सन्देशेन अपि तस्य विषये स्वविश्वासः स्नेहश्च प्रकाशितः। सामान्यतया मायावती सार्वजनिकरूपेण क
मायावती से राखी बंधवाते उमाशंकर सिंह (फाइल फोटो)


बलिया, ०६ अगस्तमासः (हि.स.)। उमाशङ्करसिंहः बहुजनसमाजपक्षस्य अध्यक्षा मायावत्याः अत्यन्तं विश्वस्तः आसीत्। बसपा-सर्वोच्चनेत्र्या सामाजिक-माध्यमेषु प्रकाशितेन सन्देशेन अपि तस्य विषये स्वविश्वासः स्नेहश्च प्रकाशितः। सामान्यतया मायावती सार्वजनिकरूपेण कमपि व्यक्तिं प्रति विशेषानुरागं न प्रदर्शयति, तथापि उमाशङ्करसिंहस्य विषये तया पुनःपुनः स्वस्नेहः प्रकटितः। तस्य पुत्र्याः विवाहसमारोहे उपस्थितिः अथवा रक्षाबन्धनदिने तस्मै रक्षासूत्र-बन्धनम्— सर्वत्र तया आत्मीयता प्रदर्शिता।

गम्भीररोगेण पीडितः सन् अपि सः बसपापक्षस्य एकमात्रविधायकत्वेन विधानमण्डलस्य अधिवेशनेषु नियमित-रूपेण सहभागं करोति स्म। स्वतीक्ष्णतर्कैः सः सदसि विशिष्टं परिचयं प्राप्तवान्। पक्ष-विपक्षयोः सर्वेषाम् मध्ये तस्य लोकप्रियता आसीत्।

यदि तस्य निर्वाचनराजनीत्याः विषये कथ्यते, तर्हि प्रथमवारं सः रसडा-विधानसभाक्षेत्रात् बसपा-पक्षस्य अभ्यर्थिरूपेण निर्वाचने स्पर्धां कृत्वा समाजवादीपक्षस्य सनातनपाण्डेयम् प्रायः ५२,८२५ मतैः पराजितवान्। तस्मिन् समये समाजवादीपक्षस्य प्रभावः प्रबलः आसीत्।

अनन्तरं २०१७ तमवर्षस्य निर्वाचने, यदा भाजपापक्षस्य प्रभावः सर्वत्र आसीत्, तदा अपि उमाशङ्करसिंहः भाजपापक्षस्य रामइकबालसिंहम् ३३,८८७ मतैः पराजितवान्। २०२२ तमवर्षस्य निर्वाचने तु तस्मै कठिनस्पर्धायाः सम्मुखिनं कर्तव्यम् अभवत्। यदा प्रदेशे बसपा प्रायः सर्वथा पराजिता अभवत्, तदा सः सुभासपा-पक्षस्य महेन्द्रचौहानम् ६,५८३ मतैः पराजित्य स्वस्थानं रक्षितवान्। जनपदे तस्य प्रभावः एतादृशः आसीत् यत् अल्पमताधिक्येन तस्य विजयः अपि जनानां चर्चाविषयः अभवत्।

ज्ञातव्यं यत् उमाशङ्करसिंहस्य बुधवासरे सायंकाले दिल्ली इत्यस्य समीपे गुरुग्रामनगरे स्थिते फोर्टिस-चिकित्सालये निधनम् अभवत्। सः गतकिञ्चित्कालात् कर्कटरोगेण पीडितः आसीत्। तस्य उपचारः अमेरिकादेशे प्रचलति स्म। स्वास्थ्यस्य आकस्मिकावनतेः कारणात् सः फोर्टिस-चिकित्सालये प्रविष्टः, यत्र तेन अन्तिमः श्वासः त्यक्तः। तस्य निधनसमाचारं श्रुत्वा बलियासहिते समग्रे पूर्वाञ्चले राजनैतिक-सामाजिकक्षेत्रेषु शोकतरंग: व्याप्त:। गुरुवासरे सायंकाले तस्य पार्थिवशरीरं पैतृकग्रामं खनवर इति स्थलं प्राप्स्यतीति अपेक्षा वर्तते। तस्य निधनस्य सूचना प्राप्तमात्रेण विभिन्नराजनैतिकदलानां नेतारः, सामाजिकसङ्घटनानि, समर्थकाः च गाढं शोकं व्यक्तवन्तः। सम्पूर्णे जनपदे तस्य समर्थकेषु शुभचिन्तकेषु च शोकमयं वातावरणं वर्तते।

छात्रराजनीत्याः आरभ्य सार्वजनिक-जीवनम्

उमाशङ्करसिंहः स्वस्य सार्वजनिक-जीवनस्य आरम्भं छात्रराजनीत्याः माध्यमेन अकरोत्। १९९०–९१ तमे वर्षे बलियास्थितस्य प्रतिष्ठितस्य सतीशचन्द्र-महाविद्यालयस्य छात्रसङ्घस्य महामन्त्री निर्वाचितः। ततः परं क्रमशः स्वकीयं राजनैतिकपरिचयं निर्माय २००० तमे वर्षे स्वगृहक्षेत्रात् जनपदपञ्चायतसदस्यः निर्वाचितः, येन स्थानीयराजनीतौ तस्य प्रतिष्ठा वर्धिता। ततः तस्य निर्माणव्यवसायः अपि विस्तारितः। तेन स्थापितायाः छात्रशक्ति कन्स्ट्रक्शन निर्माणी इत्यस्य गणना प्रदेशस्य प्रमुखमार्गनिर्माणसंस्थासु अभवत्। अस्मिन्नेव काले सः बसपा-सर्वोच्चनेत्र्या मायावत्याः सम्पर्कम् अगच्छत्। परिसीमनानन्तरं २०१२ तमे वर्षे रसडा-विधानसभाक्षेत्रं सामान्यवर्गाय उद्घाटिते सति मायावत्या सः तत्र अभ्यर्थिरूपेण स्थापितः। ततः आरभ्य सः निरन्तरं २०१२, २०१७, २०२२ इति त्रिषु निर्वाचनेषु रसडा-विधानसभाक्षेत्रात् विधायकः निर्वाचितः। २०२२ तमे वर्षे बसपा प्रदेशे पराजिता अभवत्, तथापि उमा-शङ्करसिंहः स्वस्थानं सुरक्षितं कर्तुं सफलः अभवत्।

सहस्रशः कन्यानां विवाहान् अकारयत्

उमाशङ्करसिंहः स्वनिर्वाचनक्षेत्रे दृढजनाधारस्य सक्रियजनसम्पर्कस्य च कारणेन लोकप्रियः जनप्रतिनिधिः आसीत्। सः उदारतायाः समाजसेवायाः च कृते विशेषतया प्रसिद्धः। कोरोना-महामारीपूर्वं सः बहूनि वर्षाणि निरन्तरं शतशः निर्धनकन्यानां विवाहान् सम्यक् व्यवस्थापितवान्। जनश्रुतिः अस्ति यत् तस्य द्वारम् आगतः कोऽपि आवश्यकता-ग्रस्तः जनः तस्य साहाय्यं विना कदापि न प्रत्यागच्छति स्म। एतस्मात् कारणात् जनाः तम् दानवीरः इति नाम्ना अपि सम्बोधयन्ति।

Hindusthan Samachar / Divya Ranjan