Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य सूचना-प्रौद्योगिकी-प्रकोष्ठस्य प्रमुखः अमित मालवीयः आमआदमीपक्षस्य संयोजकस्य अरविन्द-केजरीवालस्य तत् कथनं भ्रामकम् अवदत्, यस्मिन् सः केन्द्रसर्वकारम् एविएशन-टर्बाइन-इन्धने एथेनॉल-मिश्रणस्य योजनां निर्मातुम् आरोपितवान्। मालवीयः उक्तवान् यत् सर्वकारेण एटीएफ-इन्धने सामान्य-एथेनॉल-मिश्रणस्य काचिद् घोषणा न कृता, अपितु सतत-विमानन-इन्धनम् नियामक-परिपाठे समावेशितम् अस्ति।
मालवीयः गुरुवासरे एक्स इति सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तवान् यत् एसएएफ सामान्य-एथेनॉल इति नास्ति, अपितु उन्नत-प्रौद्योगिक्या निर्मितं विमानन-श्रेण्याः इन्धनम् अस्ति, यस्य रासायनिक-संरचना पारम्परिक-एटीएफ-सम्मुखिना भवति तथा च तत् विमानयानानां यन्त्रैः सह पूर्णतया अनुकूलम् अस्ति। विमानेषु उपयोगस्य अनुमतिः प्रदातुं पूर्वं एसएएफ-अस्य अन्ताराष्ट्रियस्तरे स्वीकृतानाम् एएसटीएम-मानकानाम् अनुरूपं कठोरपरीक्षणं प्रमाणीकरणं च क्रियते, येषां मान्यता अन्ताराष्ट्रिय-नागर-विमानन-सङ्घटनेन अपि प्रदत्ता अस्ति। सर्वकारस्य अनुसारेण एसएएफ-विमानन-इन्धनस्य मूलप्रकृतेः, सुरक्षायाः अथवा कार्यक्षमतायाः किमपि प्रतिकूलं प्रभावं न जनयति।
मालवीयः अवदत् यत् भारतं वैश्विक-विमानन-मानकानाम् अनुरूपं अग्रे गच्छति। आईसीएओ-सङ्गठनस्य कॉर्सिया-रूपरेखायाः तथा विश्वस्य अनेकैः प्रमुख-विमानन-विपणै: उत्सर्जन-न्यूनीकरणस्य उद्देश्येन प्रमाणीकृत-एसएएफ-इन्धनस्य उपयोगः प्रोत्साह्यते, सुरक्षा-मानकानां उच्चतमं स्तरम् अपि संरक्ष्यते। प्रमाणीकृतं सतत-विमानन-इन्धनं सामान्य-एथेनॉलस्य जेट-इन्धने मिश्रणेन तुल्यमिति वक्तुं तथ्यतः अशुद्धम् अस्ति तथा च एतेन विमानन-सुरक्षाविषये अनावश्यकाशङ्का जन्यते।
उल्लेखनीयं यत् अस्मात् पूर्वं अरविन्द-केजरीवालः एक्स इति सामाजिकमाध्यमे एतादृशं कथनं कृतवान् यत् केन्द्रसर्वकारः एटीएफ-इन्धने एथेनॉल-मिश्रणस्य योजनां निर्माति। तेन केषाञ्चन विशेषज्ञानां मतस्य उद्धरणं दत्त्वा उक्तं यत् एतादृशः निर्णयः विमानयात्राणां सुरक्षां प्रभावितुं शक्नोति।
Hindusthan Samachar / Divya Ranjan