उमाशङ्करसिंहस्य निधनानन्तरं मायावत्याः भावपूर्णं वक्तव्यम्— सः मां सहोदरीमिव अमन्यत, कदापि विश्वासघातं न कृतवान्
लखनऊ, ०६ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य बलिया-जनपदस्य रसडा-विधानसभाक्षेत्रात् निरन्तरं त्रिवारं निर्वाचितः विधायकः बहुजनसमाजपक्षस्य वरिष्ठनेता उमाशङ्करसिंहः बुधवासरे सायंकाले देहल्यां निधनं गतः। तस्य पार्थिवशरीरं अन्तिमदर्शनार्थं गुरुवासरे लखनऊ-
पुष्प अर्पित करती मायावती


काफी भावुक दिखी मायावती


पत्रकारों से बात करती मायावती


लखनऊ, ०६ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य बलिया-जनपदस्य रसडा-विधानसभाक्षेत्रात् निरन्तरं त्रिवारं निर्वाचितः विधायकः बहुजनसमाजपक्षस्य वरिष्ठनेता उमाशङ्करसिंहः बुधवासरे सायंकाले देहल्यां निधनं गतः। तस्य पार्थिवशरीरं अन्तिमदर्शनार्थं गुरुवासरे लखनऊ-नगरस्य गोमतीनगरस्थिते निवासे स्थापितम्। पक्षस्य अध्यक्षा मायावती तस्मै श्रद्धाञ्जलिं समर्पयन्ती अत्यन्तं भावविह्वला अभवत्। तया सह विधानसभाध्यक्षः सतीशमहाना तथा अन्ये बहवः राजनेतारः अपि श्रद्धाञ्जलिं समर्पयितुम् उपस्थिताः।

अस्मिन्नवसरे मायावती अवदत्— यदा प्रभृति उमाशङ्करसिंहः बसपापक्षे सम्मिलितः, तदा प्रभृति सः पूर्णनिष्ठया स्वदायित्वं निर्वहति स्म। तेन कदापि पक्षस्य विश्वासघातः न कृतः। पक्षे स्थित्वा स्वनिर्वाचनक्षेत्रस्य जनानां हितं सदा चिन्तितवान्। दीर्घकालिकरोगस्य कारणेन तस्य निधनस्य समाचारं श्रुत्वा अहं अत्यन्तम् आहता अस्मि। अस्मिन् दुःखसमये अहं तस्य परिवारस्य बन्धुभि: च सह स्थितास्मि। उमाशङ्करसिंहस्य परिवारं प्रति मम एतदेव वक्तव्यं यत् यूयं बसपापक्षाय निष्ठायाः आदर्शम् प्रस्तुतवन्तः।

मायावती पुनरपि अवदत्— उमाशङ्करसिंहः व्यवसायी आसीत्। सामान्यतया दृश्यते यत् सत्तापरिवर्तनेन अनेके व्यवसायिनः स्वपक्षं परिवर्तयन्ति, किन्तु तेन कदापि पक्षस्य विश्वासघातः न कृतः। सः मां स्वकीयां सहोदरीम् इव मन्यते स्म। अस्मिन् मासे रक्षाबन्धनोत्सवः अपि वर्तते। रक्षाबन्धनस्य अवसरे अहं लखनऊ-नगरे वा दिल्ली इत्यत्र वा यत्र कुत्रापि आसीत्, तथापि सः मत्तः सदा रक्षासूत्रं बध्नाति स्म।

बसपा-अध्यक्षा अवदत्— तस्य एकः पुत्रः अस्ति। यदि तस्य परिवारस्य इच्छा भविष्यति, तर्हि तस्य पुत्रस्य राजनैतिकजीवने प्रगतये अहं पूर्णं सहयोगं करिष्यामि। यद्यपि एतादृशं वक्तुं अयं समयः नास्ति, तथापि सः राजकारणे सक्रियः आसीत्। यदि परिवारः इच्छति, तर्हि उमाशङ्करसिंहस्य स्थाने तस्य पुत्राय महत्त्वं दास्यामि। उमाशङ्करसिंहस्य निधनात् अस्माकं पक्षस्य महती क्षतिः अभवत्।

बसपा-नेता सतीशमिश्रः अवदत्— उमाशङ्करसिंहः अस्माकं कनिष्ठभ्रातृवत् आसीत्। सः मां अत्यन्तं सम्मानयति स्म।

विधानसभाध्यक्षः सतीशमहानः अवदत्— उमाशङ्करसिंहस्य सर्वैः सह सौहार्दपूर्णः, मैत्रीपूर्णः, स्नेहपूर्णश्च सम्बन्धः आसीत्। विधानसभायां सः स्वतीक्ष्णतर्कैः प्रभावपूर्णरीत्या स्वमतं प्रस्तौति स्म। तेन उक्तानां विषयाणां विषये समग्रा विधानसभैव गम्भीरतया विचारं करोति स्म।

Hindusthan Samachar / Divya Ranjan