Enter your Email Address to subscribe to our newsletters

सारणम्, 06 अगस्तमासः (हि.स.)।एकविंशतितमा राष्ट्रिययुवा-अथलेटिक्सप्रतियोगिता २०२६ आगामि १ सितम्बरतः ३ सितम्बरपर्यन्तं पञ्जाबराज्यस्य लुधियानानगरे आयोजिता भविष्यति।
अस्यां राष्ट्रियप्रतियोगितायां बिहारराज्यस्य दलस्य प्रतिनिधित्वाय चयनपरीक्षा १६ अगस्त २०२६ दिनाङ्के प्रातः ८:०० वादनात् पटनानगरस्थिते पाटलिपुत्र-क्रीडासङ्कुले, कङ्कडबागक्षेत्रे आयोजिता भविष्यति।
सारण-अथलेटिक्ससङ्घस्य सचिवः गजेन्द्रकुमारसिंहः सूचितवान् यत् बिहार-अथलेटिक्स-सङ्घस्य निर्देशानुसारं सारणजनपदस्य प्रतिभासम्पन्नाः क्रीडकाः अपि अस्यां चयनप्रक्रियायां सहभागं करिष्यन्ति। चयनपरीक्षायां सहभागिनां क्रीडकानां जन्म १ जनवरी २००९ तः ३१ दिसम्बर २०१० पर्यन्तस्य अवधौ जातम् अवश्यं भवेत्।
क्रीडकानां समीपे भारतीय-अथलेटिक्स-महासङ्घेन प्रदत्तम् यूडीआई इति परिचयपत्रम् अनिवार्यरूपेण भवेत्। क्रीडकानाम् अन्तिमचयनम् अथलेटिक-फेडरेशन-ऑफ्-इण्डिया इत्यस्य कट्-ऑफ्-मानदण्डानां आधारेण भविष्यति।
Hindusthan Samachar / Dheeraj Maithani