Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 06 अगस्तमासः (हि.स.)।
दिल्लीनगरस्य मुख्यमन्त्री रेखा गुप्ता शिक्षाक्षेत्रे स्वास्थ्यक्षेत्रे च दिल्ली अधीनस्थ सेवा चयन बोर्ड (डीएसएसएसबी) इत्यस्य प्रचलमानायाः भर्तीप्रक्रियायाः प्रगतिम् असमीक्षत। तया नियुक्तिषु शीघ्रता, भर्तीसम्बद्धानां लम्बितविषयाणां समाधानम्, योग्याभ्यर्थिनां कृते समये अवसरप्रदानं च विशेषतया प्रतिपादितम्। अस्मिन् उपवेशने दिल्लीनगरस्य शिक्षामन्त्री आशीष सूद अपि उपस्थितः आसीत्।
मुख्यमन्त्रिणा बुधवासरे कृते समीक्षोपवेशने लम्बितभर्तीपरीक्षाः, परिणामानां घोषणा, विभागानुसारं रिक्तपदानि, भर्तीसम्बद्धानि याचनापत्राणि, टीजीटीनियुक्तिः तथा सीटीईटी सम्बन्धितविषयाणां प्रगतिः इत्येतेषां विषये चर्चा कृता। तेन सहैव शिक्षानिदेशालये विद्यमानानि रिक्तपदानि, लम्बितपरिणामाः, डोसियरसम्बद्धविषयाः, ऑपरेशन थिएटर (ओटी) असिस्टेंट, टेक्नीशियन, ऑप्टोमेट्रिस्ट, रेडियोग्राफर इत्येषां भर्तीप्रक्रिया, पैरामेडिकल तथा नर्सिंग भर्तीसम्बद्धस्य ई अपॉइण्टमेण्ट पोर्टलस्य विषयस्य प्रगतिश्च समीक्षिता।
मुख्यमन्त्री उक्तवती यत् शासनं पारदर्शिन्याः, योग्यतामूलकायाः तथा समयसीमायामेव सम्पूर्णतां गच्छन्त्याः नियुक्तिप्रक्रियायाः प्रति दृढसंकल्पितम् अस्ति। तया उक्तं यत् नियुक्तिप्रक्रियायाः समये समापनात् युवभ्यः अधिकाः अवसराः उपलब्धाः भविष्यन्ति, आवश्यकजनसेवानां प्रदायव्यवस्था च अधिकं सुदृढा भविष्यति।
शिक्षामन्त्री आशीष सूदो गुरुवासरे सामाजिकमाध्यमस्य एक्स इत्यस्य स्वकीयलेखेन अवदत् यत् अस्यां समीक्षोपवेशने नियुक्तिषु शीघ्रता, नियुक्तिसम्बद्धानां लम्बितविषयाणां समाधानम् तथा योग्याभ्यर्थिनां कृते समये अवसरप्रदानम् इत्येषु विषयेषु विशेषं ध्यानं केन्द्रितम्। तेन उक्तं यत् नियुक्तिप्रक्रियायाः त्वरितगत्या सञ्चालनात् तथा लम्बितरिक्तपदानां समस्यायाः समाधानात् दिल्लीशासनं योग्याभ्यर्थिनां कृते अधिकान् अवसरान् सृजति, शिक्षाक्षेत्रे स्वास्थ्यक्षेत्रे च सुदृढं कार्यबलं निर्माति।
---------------
Hindusthan Samachar / Dheeraj Maithani