Enter your Email Address to subscribe to our newsletters

रायपुरम्, ०६ अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसाय: अद्य गुरुवासरे राजधानी-रायपुरे विविधेषु विभागीय-कार्यक्रमेषु सहभागं करिष्यति। निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११ वादने मन्त्रालयं गत्वा पारस-राज्य-प्रगति-पटललस्य समीक्षासभां करिष्यति।
तदनन्तरम् अपराह्णे १ वादने ‘विकसित भारत’ इति विषयसम्बद्धं पत्रकारसम्मेलनं सम्बोधयिष्यति। पत्रकारसम्मेलनस्य अनन्तरं सः ऊर्जाविभागस्य अधिकारीभिः सह विभागीयकार्याणां समीक्षासभां करिष्यति।
एतासु सभासु विविधयोजनानां प्रगतिः तथा विभागीयकार्याणां समीक्षणं क्रियते इति सम्भावना वर्तते।
Hindusthan Samachar / Divya Ranjan