मुख्यमंत्री योगी प्रतापगढ़दूर्घटनायां जातं जनहानिं प्रति प्रकटितवान् शोकम्
लखनऊ, 06 अगस्तमासः (हि.स.)। मुख्यमन्त्री योगीआदित्यनाथः प्रतापगढ़जनपदे रात्रौ अभवस्याः दुर्घटनायाः जनहानिं प्रति गाढं शोकं व्यक्तवान्। वर्षणकारणात् नगरकोतवालीक्षेत्रस्य महुलीवार्डे प्रायः शतवर्षपुरातनं गृहम् अपतत्। तस्य भग्नावशेषेषु निमग्नाः षट्
मुख्यमंत्री योगी आदित्यनाथ


लखनऊ, 06 अगस्तमासः (हि.स.)।

मुख्यमन्त्री योगीआदित्यनाथः प्रतापगढ़जनपदे रात्रौ अभवस्याः दुर्घटनायाः जनहानिं प्रति गाढं शोकं व्यक्तवान्। वर्षणकारणात् नगरकोतवालीक्षेत्रस्य महुलीवार्डे प्रायः शतवर्षपुरातनं गृहम् अपतत्। तस्य भग्नावशेषेषु निमग्नाः षट् जनाः मृत्युम् उपगताः, परिवारस्य एकः सदस्यः तु आहतः अभवत्। दुर्घटनासमये परिवारस्य सर्वे सदस्याः एकस्मिन् एव कक्षे सुप्ताः आसन्। सूचनां प्राप्य प्रशासनस्य पुलिसविभागस्य च अधिकारीणः दलैः सह राहत् उद्धारकार्येषु त्वरितं प्रवृत्ताः।

अस्यां दुर्घटनायां महुलीनिवासिनः नितिनश्रीवास्तवः (२४), माधवः (२), रीताश्रीवास्तवा (४२), प्रमोदश्रीवास्तवः (४५), माधुरी (२४), बाबू (षण्मासीयः) च निधनं प्राप्तवन्तः, अमनश्रीवास्तवः तु आहतः अस्ति। मुख्यमन्त्री स्थानीयजनपदप्रशासनाय मुख्यचिकित्साधिकारिणे च आहतस्य अमनश्रीवास्तवस्य समुचितचिकित्सायाः व्यवस्था कर्तुम् निर्देशम् अददात्।

अस्याः दुःखदघटनायाः विषये मुख्यमन्त्री योगीआदित्यनाथः सामाजिकमाध्यमस्य 'एक्स' इत्यत्र लेखं प्रकाशित्य संवेदनां व्यक्तवान्। तेन लिखितं यत् प्रतापगढ़जनपदे अभवत् एषा दुर्भाग्यपूर्णा दुर्घटना, यस्यां जनहानिः अभवत्, अत्यन्तं दुःखदा अस्ति। मम संवेदनाः शोकसन्तप्तपरिवारजनैः सह सन्ति। प्रभुश्रीरामं प्रति प्रार्थये यत् दिवङ्गतानाम् आत्मनां स्वश्रीचरणयोः स्थानं ददातु तथा आहताय शीघ्रं स्वास्थ्यलाभं प्रददातु।

---------------

Hindusthan Samachar / Dheeraj Maithani