Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ अगस्तमासः (हि.स.)। कांग्रेस-अध्यक्षः राज्यसभायां प्रतिपक्षनेता च मल्लिकार्जुन-खरगे प्रदर्शनरत-छात्रेषु आरक्षकबलस्य कार्यवाहीम् अधिकृत्य केन्द्रसर्वकारस्य तीव्रालोचनां कृतवान्। स उक्तवान् यत् संसदः सत्रारम्भात् एव प्रतिपक्षस्य केवलं द्वे अपेक्षे स्तः। प्रथमा—प्रधानमन्त्री छात्रेभ्यः क्षमां याचतु, द्वितीया—केन्द्रीयगृहमन्त्री अमितशाहः सदनम् आगत्य सम्पूर्णघटनाक्रमस्य विषये वक्तव्यं ददातु। तेन आरोपः कृतः यत् सर्वकारः एताभ्यां अपेक्षाभ्यां परिहर्तुं प्रयतते, अतः संसदः गतिरोधः प्रवर्तमानः अस्ति।
खरगे गुरुवासरे स्वनिवासे आयोजिते पत्रकारसम्मेलने अवदत् यत् प्रतिपक्षः निरन्तरम् एतत् पृच्छति यत् छात्रान्दोलनस्य समये दण्डप्रहारस्य, पैलेट-आयुधस्य, अश्रुवातेः तथा अन्यबलप्रयोगस्य आदेशः केन दत्तः। शान्तिपूर्वकं प्रदर्शनं कुर्वत्सु छात्रेषु, विशेषतः छात्रासु, यथा व्यवहारः कृतः, सः सर्वथा अस्वीकार्यः अस्ति।
सः पुनरुक्तवान् यत् प्रतिपक्षस्य अपेक्षा केवलम् एतावती अस्ति यत् गृहमन्त्री संसदम् आगत्य स्पष्टयतु यत् दण्डप्रहारस्य, पैलेट-आयुधस्य, अश्रुवातेः च प्रयोगस्य निर्णयः कस्मिन् स्तरे कृतः। केन्द्रीय-आरक्षित-आरक्षकबलम्, रैपिड्-एक्शन-फोर्स तथा दिल्ली-आरक्षक-विभागः गृहमन्त्रालयस्य अधीने कार्यं कुर्वन्ति, अतः एतस्याः कार्यवाह्याः उत्तरदायित्वं निश्चेतव्यं भवेत्।
खरगे आरोपितवान् यत् विगतपञ्चदश-दिनेषु न गृहमन्त्री सदनम् आगतः, न च प्रधानमन्त्री अस्मिन् विषये किमपि वक्तव्यं दत्तवान्। अस्य केवलं द्वौ अर्थौ सम्भवतः— सर्वकारः संसदे महत्त्वं न ददाति अथवा उत्तरदानात् पलायते।
कांग्रेस-अध्यक्षः अवदत् यत् यदि सर्वकारः छात्राणां आन्दोलनस्य समाप्तिम् इच्छति स्म, तर्हि प्रधानमन्त्री वा गृहमन्त्री वा संसदम् आगत्य छात्रेभ्यः आन्दोलन-समापनाय आह्वानं कृत्वा समाधानस्य आश्वासनम् दद्यात्, किन्तु तथापि न कृतम्।
सः अवदत् यत् गुरुवासरे राज्यसभायाः प्रतिपक्षसांसदाः सभापतिं समुपगत्य प्रधानमन्त्रिणः क्षमायाचनां गृहमन्त्रिणः वक्तव्यं च प्रार्थितवन्तः। सभापतिना अपि संसदीयकार्यमन्त्रिणे उक्तं यत् सदनस्य भावना एषा एव अस्ति यत् गृहमन्त्री आगत्य स्वपक्षं प्रस्तौतु, तथापि सर्वकारेण कश्चन प्रयत्नः न कृतः।
खरगे उक्तवान् यत् संसद् चर्चा-संवादयोः मञ्चः अस्ति तथा प्रतिपक्षः सर्वेषु विषयेषु चर्चायै सज्जः अस्ति, किन्तु सर्वकारः उत्तरदायित्वात् पलायते। सः आरोपितवान् यत् यदा यदा सः नियम-२६७ अन्तर्गतं महत्त्वपूर्णं विषयम् उत्थापयितुं प्रयतते, तदा तस्य वचनं सम्यक् वक्तुं न अनुमन्यते।
सः अवदत् यत् यदि प्रधानमन्त्री छात्रेभ्यः एतद् उक्तवान् स्यात् यत् “यद् भवद्भिः सह अभवत् तत् न भवितव्यम् आसीत्, सर्वकारः च अस्मिन् विषये खेदं प्रकटयति,” तर्हि परिस्थितिः सामान्यरूपेण भवितुम् अर्हति स्म। प्रधानमन्त्री छात्रेभ्यः तेषां च अभिभावकेभ्यः क्षमां याचेत्, यतः आरक्षककार्यवाह्या ते गम्भीरं मानसिक-दुःखम् अनुभूतवन्तः।
खरगे उक्तवान् यत् संसदः गतिरोधः प्रतिपक्षस्य कारणेन न, अपितु सर्वकारस्य हठस्य कारणेन जातः अस्ति। यदि सर्वकारः गृहमन्त्रिणः वक्तव्यं प्रधानमन्त्रिणः प्रतिक्रिया च सदसि प्रस्तौति, तर्हि चर्चा अग्रे प्रवर्तितुं शक्नोति।
एकस्य प्रश्नस्य उत्तरे खरगे उक्तवान् यत् सदनस्य कार्यवाही कथं प्रवर्तिष्यते इति अस्मिन् विषये निर्भरति सर्वकारः कदा कथं च स्वपक्षं प्रस्तौति। प्रथमं सर्वकारः सदसि आगत्य वक्तव्यं ददातु, ततः परं अग्रिमरणनीतिः निर्धारिता भविष्यति।
झारखण्डे छात्रान्दोलनसम्बद्धस्य प्रश्नस्य उत्तरे खरगे उक्तवान् यत् कांग्रेस-दलं सर्वेषु राज्येषु छात्रैः सह तिष्ठति। झारखण्डे, पञ्जाबे अथवा दिल्ली इत्यत्र यदि छात्रेषु अन्यायः भविष्यति, तर्हि कांग्रेसपक्षः तेषां स्वरं निरन्तरम् उत्थापयिष्यति तथा तेषां समस्यासमाधानार्थं संघर्षं निरन्तरं करिष्यति।
Hindusthan Samachar / Divya Ranjan