Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 अगस्तमासः (हि.स.)।
केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावतः गुरुवासरे अवदत् यत् राष्ट्रगानम् तथा ‘वन्दे मातरम्’ भारतस्य राष्ट्रियचेतनायाः स्वरः अस्ति। तिरङ्गध्वजः तु भारतस्य सभ्यतायाः निरन्तरतायाः सामूहिकसङ्कल्पस्य च प्रतीकः अस्ति।
शेखावतः अद्य देहलीस्थे इन्दिरागान्धीराष्ट्रियकलाकेन्द्रे (आईजीएनसीए) आगामिनि पञ्चदशागस्टदिनाङ्के आयोज्यमानस्य ‘हर घर तिरंगा’ अभियानस्य तथा च चतुर्दशागस्टदिनाङ्के सम्पूर्णे भारते आयोज्यमानस्य ‘विभाजनविभीषिकास्मृतिदिवसस्य’ पूर्वं आयोजिते पत्रकारसम्मेलने सम्बोधनं कुर्वन् अवदत्, “राष्ट्रस्य नागरिकानां कृते तिरङ्गः केवलं त्रिवर्णात्मकः वस्त्रखण्डः नास्ति, अपितु असौ अस्माकं लक्षशः जनानां बलिदानस्य प्रतीकः अस्ति। ये देशस्य स्वातन्त्र्यप्राप्त्यर्थम्, स्वतन्त्रराष्ट्रस्य सीमासुरक्षार्थम्, आन्तरिकसुरक्षायाः संरक्षणार्थं च स्वप्राणान् न्यवेदयन्, तेषां त्यागस्यायं साक्षी अस्ति।”
तेन उक्तं यत् एषः तिरङ्गोत्सवः एकतः अस्मान् सर्वान् राष्ट्रेण सह अधिकं सम्बध्नाति, अपरतः तिरङ्गः अस्माकं राष्ट्रियस्वाभिमानस्य प्रतीकः अस्ति। विश्वस्य यस्मिन् कस्मिन्नपि प्रदेशे निवसन्तः भारतस्य चतुर्दशकोट्यधिकशतलक्ष (१४० कोटि) नागरिकाः सन्ति, तेषां सर्वेषाम् एकतासूत्रे संयोजकः अयं तिरङ्ग एव अस्ति।
मन्त्री अवदत् यत् अस्य वर्षस्य तिरङ्गोत्सवः ‘वन्दे मातरम्’ गीतस्य सार्धशततमवर्षपूर्तेः ऐतिहासिकावसरेण सह संयुक्तरूपेण आचर्यते। नागरिकाः अधुना ‘हर घर तिरंगा’ इति आधिकारिकपोर्टले सङ्गीतसहितं ‘वन्दे मातरम्’ गायित्वा स्वाभ्यासं कर्तुं शक्नुवन्ति तथा स्वीयानि छायाचित्राणि चलचित्राणि च आरोपयितुमपि अर्हन्ति।
विदेशमन्त्रालयस्य राष्ट्रियप्रवक्ता रणधीरजायसवालः अवदत् यत् स्वातन्त्र्यदिवसस्य अवसरः प्राप्ते विदेशमन्त्रालयं तथा विश्वव्याप्तेषु द्विशताधिकेषु भारतीयदूतावासेषु ‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं विविधाः डिजिटल्-सांस्कृतिककार्यक्रमाः आयोजयिष्यन्ते।
तेन उक्तं यत् एषः डिजिटल्-रिले-अभियानः पूर्वदिशि फिजीदेशात् आरभ्य पश्चिमदिशि अमेरिकादेशस्य सान्फ्रान्सिस्कोनगरपर्यन्तं चतुश्चत्वारिंशदधिकपञ्चाशत् (५४) भारतीयमिशनान् संयोजयिष्यति। तथैव ‘वन्दे मातरम्’ गीतस्य सार्धशततमवार्षिकोत्सवस्य निमित्तं विदेशेषु सामूहिकरूपेण ‘वन्दे मातरम्’ गायनस्य आयोजनमपि भविष्यति।
प्रवक्त्रा सूचितं यत् ‘भारतं जानीहि’ इति प्रश्नमञ्चः, ‘मम भारतः मम कथा’ इति अनुभवरचनाप्रयत्नः, ‘इण्डिया थ्रू माई लेन्स्’ इति छायाचित्रस्पर्धा तथा ‘हर घर तिरंगा’ आत्मचित्र-अभियानम् आयोजयिष्यन्ते। एतदतिरिक्तम् भारतीयसांस्कृतिकसम्बन्धपरिषदः (आईसीसीआर) सहयोगेन गोंड्, वारली, फड् तथा मधुबनीचित्रकलासु कार्यशालाः भविष्यन्ति। विश्वस्य प्रमुखभवनानि तिरङ्गवर्णैः प्रकाशितानि अपि भविष्यन्ति।
संयुक्तसचिवः समरनन्दा अवदत् यत् अस्माकं ‘सूर्यपथ तिरंगा’ अभियानम् आगामिनि पञ्चदशागस्टदिनाङ्के फिजीदेशात् आरभ्यते। ततः एषः क्रमशः एकस्मात् देशात् अपरं देशं प्रति गमिष्यति तथा अमेरिकादेशस्य सान्फ्रान्सिस्कोनगरे स्थिते भारतीयवाणिज्यदूतावासे समाप्स्यते। एषः कार्यक्रमः अस्माकं ध्वजस्य, अस्माकं सम्मानस्य, अस्माकं राष्ट्रियगौरवस्य च अभिनवोत्सवः अस्ति।
‘सूर्यपथ तिरंगा’ अभियानस्य अतिरिक्तं विदेशेषु स्थितानि भारतीयमिशनानि ‘भारतं जानीहि’ प्रश्नमञ्चस्य आयोजनस्य सिद्धतां कुर्वन्ति अथवा तस्मिन् भागं गृह्णन्ति। एषा विशिष्टा पहल अस्ति, यस्य माध्यमेन वयं विश्वस्य अधिकाधिकजनान् भारतेन सह सम्बद्धान् कर्तुमिच्छामः, येन ते भारतस्य इतिहासं, संस्कृतिं, विविधतां तथा ‘विकसितभारत २०४७’ निर्माणदिशि प्रवर्तमानान् प्रयत्नान् ज्ञातुं शक्नुवन्ति।
तेन उक्तं यत् अस्मिन् वर्षे आयोजितेषु कार्यक्रमेषु ‘वन्दे मातरम्’ इति गीतस्य सामूहिकगायनम् प्रमुखमाकर्षणं भविष्यति। अद्यतनकाले संसदा ‘वन्दे मातरम्’ सम्बन्धितं विधेयकं पारितं कृतम्, तदनन्तरं गृहमन्त्रालयेन तस्य विषये दिशानिर्देशाः प्रकाशिताः। अयं अभियानः केवलं ध्वजारोहणपर्यन्तं सीमितः नास्ति, अपितु ‘सम्पूर्णराष्ट्रदृष्टिकोणम्’ आधारीकृत्य सञ्चाल्यते। अस्मिन् प्रभातफेर्यः, विद्यालयीयप्रश्नमञ्चाः, वादविवादस्पर्धाः, स्वच्छताभियानानि तथा विविधाः सांस्कृतिकक्रियाकलापाः समाविष्टाः सन्ति।
आईजीएनसीए इत्यस्य सदस्यसचिवः डॉ. सच्चिदानन्दजोशी अवदत् यत् सम्पूर्णे राष्ट्रे रेलस्थानकेषु, विमानस्थानकेषु, बैङ्केषु च सहितं प्रायः लक्षाधिकेषु स्थानेषु प्रदर्शनीनां आयोजनं भविष्यति। तथैव पञ्चसप्तत्यधिकेषु विश्वविद्यालयेषु सङ्गोष्ठ्यः आयोजयिष्यन्ते। एतदतिरिक्तं कोलकातानगरस्य सियालदहरेलस्थानके विभाजनकाले मृतानां स्मरणार्थं स्मारकप्रतिमा स्थापयिष्यते, यस्याः अनावरणं नवम्बरमासे प्रस्तावितम् अस्ति।
तेन सूचितं यत् विभाजनसम्बद्धानां कथानां, संस्मरणानां, कवितानां चलचित्राणां च सङ्ग्रहार्थं विशेषजालपुटस्य अभिलेखागारस्य च शुभारम्भः कृतः, यत्र सामान्यनागरिकाः अपि स्वीयाः कथाः साझीकर्तुं शक्नुवन्ति।
‘विभाजनविभीषिकास्मृतिदिवसस्य’ आयोजनस्य उद्देश्यं १९४७ तमे वर्षे राष्ट्रविभाजनसमये जनैः अनुभूतां पीडां, संघर्षं, बलिदानं च स्मर्तुम् अस्ति।
अभियानाय समर्पितम् आधिकारिकपोर्टलम् नवमदिनाङ्कात् सप्तदशदिनाङ्कपर्यन्तं सक्रियं भविष्यति। नागरिकाः अस्मिन् पोर्टले तिरङ्गध्वजेन सह स्वीयमात्मचित्रम् आरोप्य अस्मिन् जनान्दोलने सहभागीभवितुं शक्नुवन्ति। उल्लेखनीयं यत् गतवर्षे अस्मिन् पोर्टले अभिलेखरूपेण सप्तकोट्यधिकानि एकपञ्चाशल्लक्षं आत्मचित्राणि अभिलेखितानि आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani