Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 06 अगस्तमासः (हि.स.)।
दिल्लीनगर्याः मुख्यमन्त्री रेखागुप्ता पीतमपुरास्थिते सर्वोदयविद्यालये नूतनायाः विज्ञानप्रौद्योगिकीअभियान्त्रिकीगणितविषयकस्य (स्टेम) नवाचारप्रयोगशालायाः उद्घाटनम् अकरोत्। सा अवदत् यत् एषा प्रयोगशाला छात्राणां कृते तादृशं स्थानम् अस्ति, यत्र ते स्वयम् आचरित्वा शिक्षां प्राप्नुयुः, सृजनात्मकतया चिन्तयेयुः तथा स्वविचारान् नवाचाररूपेण परिणमयितुं समर्थाः भवेयुः। अस्मिन् अवसरे क्रिकेटक्रीडकः शिखरधवनः तथा सोफीधवन अपि उपस्थितौ आस्ताम्।
मुख्यमन्त्री सामाजिकमाध्यमस्य एक्स इत्यत्र स्वकीयलेखने अवदत् यत् दिल्लीनगर्याः प्रत्येकः विद्यार्थी महान् स्वप्नान् पश्येत् तथा तान् साकारयितुं आधुनिकावसरान् प्राप्नुयात्, एषा एव अस्माकं प्रतिबद्धता अस्ति। प्रधानमन्त्रीनरेन्द्रमोदिनः विकसितभारतस्य दृष्टेः अनुरूपं दिल्लीनगर्याः शासकीयविद्यालयेषु विश्वस्तरीयशिक्षणसुविधानां विस्तारः निरन्तरं क्रियमाणः अस्ति।
सा अवदत् यत् पीतमपुरास्थिते शासकीयसर्वोदयविद्यालये स्टेमनवाचारप्रयोगशालायाः शुभारम्भः अस्यैव दिशायाः महत्त्वपूर्णः चरणः अस्ति। एषा सार्वजनिकनिजीभागीदारी इति व्यवस्थायाः जनसहभागितायाश्च शक्तेः उत्कृष्टम् उदाहरणम् अस्ति, या शासकीयविद्यालयेषु नवाचारस्य गुणवत्तापूर्णशिक्षायाश्च नूतनान् आयामान् स्थापयति। एषा प्रयोगशाला शिखरधवनफाउण्डेशन, एचएमडी इण्डिया तथा डा वन ग्रुप इत्येषां सहयोगेन निर्मिता अस्ति।
मुख्यमन्त्री अस्य सहयोगस्य कृते शिखरधवनं सोफीधवनं च धन्यवादम् अददात्। सा अवदत् यत् युवयोः योगदानं दिल्लीनगर्याः बालकानां उज्ज्वलभविष्ये महत्त्वपूर्णं निवेशम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani