शिंजो आबे मार्ग: नवदिल्ल्यां भारतस्य महतो जापानी मित्रस्य सम्मानगतम् अभियानम्
टोक्यो, 06 अगस्तमासः (हि.स.)। भारतजापानसम्बन्धान् अधिकं सुदृढान् कर्तुं समर्पिता संस्था ‘कनेक्ट इण्डिया जापान’ इत्यनेन सार्वजनिकम् अभियानम् आरब्धम् अस्ति, यस्मिन् भारतसर्वकारात् नूतनदिल्लीनगरे कस्यचित् मार्गस्य नाम जापानस्य पूर्वप्रधानमन्त्रिणः श
India & Japan's PMs (File Photo)


India Japan Friendship Poster


टोक्यो, 06 अगस्तमासः (हि.स.)।

भारतजापानसम्बन्धान् अधिकं सुदृढान् कर्तुं समर्पिता संस्था ‘कनेक्ट इण्डिया जापान’ इत्यनेन सार्वजनिकम् अभियानम् आरब्धम् अस्ति, यस्मिन् भारतसर्वकारात् नूतनदिल्लीनगरे कस्यचित् मार्गस्य नाम जापानस्य पूर्वप्रधानमन्त्रिणः शिन्जो आबे इत्यस्य नाम्ना करणस्य आग्रहः कृतः अस्ति। कनेक्ट इण्डिया जापान संस्थायाः संस्थापिकायाः मुख्यकार्यनिर्वाहिकायाश्च नूपुर तिवारी इत्यस्याः नेतृत्वे प्रवर्तमानायाः अस्याः पहलायाः उद्देश्यः भारतजापानयोः सामरिकआर्थिकसांस्कृतिकसहकार्यस्य संवर्धने आबे इत्यस्य महत्त्वपूर्णं योगदानं स्मारयितुम् अस्ति।

२६ सितम्बर २००६ तः २६ सितम्बर २००७ पर्यन्तं तथा २६ दिसम्बर २०१२ तः १६ सितम्बर २०२० पर्यन्तं जापानस्य द्विवारं प्रधानमन्त्रीरूपेण कार्यं कृतवन्तः आबे स्वकार्यकाले चतुर्वारं भारतस्य यात्राम् अकुर्वन्।

प्रधानमन्त्रिणा नरेन्द्रमोदिना सह तस्य नेतृत्वे रक्षाक्षेत्रे, आधारभूतसंरचनायाम्, प्रौद्योगिक्यां, क्षेत्रीयसुरक्षायां च महत्त्वपूर्णं सहकार्यं प्रवर्धितम्। तयोः नेतृत्वे भारतजापानसम्बन्धाः औपचारिकरूपेण विशिष्टसामरिकवैश्विकसहभागित्वम् इति स्तरम् उन्नीताः।

नूपुर तिवारी अवदत्, “शिन्जो आबे इत्यस्य नाम्ना मार्गस्य नामकरणं केवलं स्मृतेः संरक्षणार्थं न, अपितु भारतस्य राजधान्यां कृतज्ञतायाः स्थायिप्रतीकस्य स्थापनार्थम् अपि अस्ति।” सा पुनरपि अवदत्, “एतत् तस्य योगदानं इतिहासग्रन्थेभ्यः बहिः नागरिकानां दैनन्दिनजीवने स्थापयति तथा च अस्माकं उभयोर्देशयोः सम्बन्धानां सजीवं स्मारकं भवति।”

द्वे दशकेभ्यः अधिककालात् जापाने निवसन्ती भारतीयनागरिका नूपुर तिवारी एतद् आन्दोलनम् ‘ओङ्गेशी’ इत्यस्य अभिव्यक्तिरूपेण वर्णितवती। एषा जापानीया अवधारणा दयायाः कृतज्ञतायाश्च प्रकटीकरणं बोधयति। तिवारी अवदत्, “भारतः मह्यं मम मूलानि अददात्, जापानः तु मह्यं पक्षा अददात्।” तया विशेषरूपेण उक्तं यत् कनेक्ट इण्डिया जापान संस्थायाः स्थापना आर्थिकसांस्कृतिकभावनात्मकक्षेत्रेषु सेतुनिर्माणस्य उद्देश्येन कृता अस्ति।

एतदभियानं भारतस्य जनानां पक्षतः तस्मै नेतृे कृतज्ञतायाः प्रतीकम् अस्ति, यः वास्तवमेव जापानेन सह भारतस्य सामर्थ्ये तस्य सामरिकभविष्ये च दृढविश्वासं धारयति स्म।

अभियानस्य मतानुसारं प्रस्तावितः मार्गः भाविपीढीनां कृते सार्वजनिकशैक्षणिकसन्दर्भबिन्दुरूपेण भविष्यति। सः प्राचीनयोः सभ्यतयोः आधुनिकयोः लोकतान्त्रिकराष्ट्रयोश्च मध्ये गाढविश्वासस्य स्थायिप्रतीकं भविष्यति।

कनेक्ट इण्डिया जापान संस्थायाः लक्ष्यं राजधान्यां अस्य प्रस्तावस्य सफलतायै शासकीयाधिकारिणः नागरिकसमाजं च समानरूपेण सहभागीकरणम् अस्ति।-----------