Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 06 अगस्तमासः (हि.स.)। बस्तराञ्चलस्य सुशिक्षितेभ्यः कौशलसम्पन्नेभ्यश्च युवभ्यः रोजगारस्य महदवसरम् अस्ति। जगदलपुरस्य आड़ावालस्थे जिला रोजगार एवं स्वजीविकामार्गदर्शन केन्द्रस्य तत्त्वावधाने सोमवासरे १० अगस्ते एकदिवसीयस्य जीविकामेलापकस्य आयोजनं भविष्यति। अयं मेलः प्रातः १०:३० वादनतः सायं ४ वादनपर्यन्तं जिला जीविका एवं स्वजीविका इत्येनयोः मार्गदर्शन केन्द्रपरिसरे आड़ावाल, जगदलपुरे आयोज्यते।
उपसञ्चालकेन रोजगार एवं स्वरोजगार मार्गदर्शन केन्द्र, जगदलपुरतः प्राप्तसूचनानुसारम् अस्य रोजगारमेलस्य माध्यमेन निजीक्षेत्रस्य त्रयः प्रमुखनियोजकाः प्रायः २१९ रिक्तपदेषु योग्याभ्यर्थिनां चयनं करिष्यन्ति। चयनितेभ्यः अभ्यर्थिभ्यः तेषां योग्यतानुसारं पदानुसारञ्च प्रतिमासं ८ सहस्ररूप्यकात् आरभ्य २६ सहस्ररूप्यकपर्यन्तम् आकर्षकं वेतनं प्रदास्यते।
अस्मिन् मेले दशमकक्षोत्तीर्णाः, द्वादशकक्षोत्तीर्णाः, स्नातकाः, आईटीआई उत्तीर्णाः तथा इलेक्ट्रिशियन एवं फिटर इति योग्यतां धारयन्तः युवानः सहभागिनः भवितुम् अर्हन्ति। भर्तीप्रक्रियायां बिलिंग ऑपरेटर, सिक्योरिटी गार्ड, हाउस कीपिंग स्टाफ, एचआर एग्जीक्यूटिव, सर्विस इंचार्ज, इलेक्ट्रिशियन, फिटर, डाटा एण्ट्री ऑपरेटर, स्टोर कीपर, स्टोर इंचार्ज, सुपरवाइजर तथा सेल्स एग्जीक्यूटिव इत्यादिषु विविधपदेषु साक्षात्काराः भविष्यन्ति।
रोजगारमेले सहभागितार्थम् आवेदकैः प्रथमं विभागस्य आधिकारिकपोर्टले (https://erojgar.cg.gov.in/LandingSite/RojgarMelaList.aspx) गत्वा ऑनलाइन पञ्जीयनं करणीयम्। ये अभ्यर्थिनः पटले स्वकीयम् ऑनलाइन आवेदनं सम्पूर्णं कृतवन्तः सन्ति, ते १० अगस्ते स्वसमस्तशैक्षणिकयोग्यतानां मूलप्रमाणपत्राणि, तेषां छायाप्रतीः, परिचयपत्रं, जीविकापञ्जीयनपत्रम्, पासपोर्टपरिमाणस्य छायाचित्राणि तथा चलदूरवाणी-यन्त्रं सहितं प्रत्यक्षं जिला जीविकाकार्यालयं, जगदलपुरम् उपस्थित्य अस्य अवसरस्य लाभं प्राप्नुयुः।
---------------
Hindusthan Samachar / Dheeraj Maithani