Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य संसदीयमण्डलस्य सदस्यः, राज्यसभासांसदः, भाजपायाः ओबीसी-मोर्चायाः राष्ट्रियाध्यक्षः तथा राज्यसभा-गृहसमितेः अध्यक्षः डॉ. के. लक्ष्मणः गुरुवासरे राज्यसभायाः शून्यकाले सन्त-सेवालाल-महाराज्ञे राष्ट्रीयस्तरे सम्मानप्रदानस्य महत्त्वपूर्णां याचनाम् अकरोत्।
डॉ. लक्ष्मणः अवदत् यत् बञ्जारासमाजस्य पूजनीयः सन्तः महान् समाजसुधारकश्च सन्त-सेवालाल-महाराजः स्वसमग्रजीवनं निर्धनानां, जनजातीयसमुदायानां तथा वञ्चितवर्गाणाम् उत्थानाय समर्पितवान्। तेन सत्यस्य, समानतायाः, सामाजिक-समरसतायाः, आत्मनिर्भरतायाः तथा प्रकृतिं प्रति सम्मानस्य जीवनमूल्यानां व्यापकः प्रचारः कृतः। तस्य विचाराः शिक्षाश्च अद्यापि तेलङ्गाणा, आन्ध्रप्रदेशः, महाराष्ट्रं, कर्नाटकम्, मध्यप्रदेशः, छत्तीसगढः, राजस्थानम् इत्यादिषु देशस्य अनेक-राज्येषु कोटिशः जनान् प्रेरयन्ति।
डॉ. लक्ष्मणः केन्द्रसर्वकारं प्रति सन्त-सेवालाल-महाराज्ञ: सम्मानार्थं अनेकानि पदानि ग्रहीतुं प्रार्थितवान्। तेषु सन्त-सेवालाल-महाराजस्य जयन्तीं राष्ट्रीयावकाशः इति घोषयितुम्, तस्य शिक्षाणां व्यापकप्रचारार्थं देशव्यापी स्मृतिकार्यक्रमान् जागरूकताकार्यक्रमांश्च आयोजयितुम्, तस्य जीवनस्य, दर्शनस्य तथा सामाजिकयोगदानस्य विषये अनुसन्धानं, प्रकाशनानि, शैक्षिक-गतिविधयश्च प्रोत्साहयितुं च सम्मिलितम्।
तेन सन्त-सेवालालस्य सम्मानार्थं स्मारक-डाक-चिटिकाया: प्रकाशनस्य अपि याचना कृता।
डॉ. लक्ष्मणः अवदत् यत् सन्त-सेवालाल-महाराज्ञे राष्ट्रीयस्तरे सम्मानप्रदानं सामाजिकन्यायस्य, राष्ट्रियैक्यस्य, सेवायाः तथा समरसतायाः तस्य महानादर्शान् प्रति सत्य श्रद्धाञ्जलिः भविष्यति। तेन केन्द्रसर्वकारं प्रति दीर्घकालात् प्रलम्बितायाः अस्याः याचनाया: विषये सहानुभूतिपूर्वकं विचारं कृत्वा शीघ्रमेव आवश्यकपदानि ग्रहीतुं आग्रहः कृतः।
Hindusthan Samachar / Divya Ranjan