Enter your Email Address to subscribe to our newsletters


भोपालम्, ०६ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपाले केन्द्रीय-संस्कृतिमन्त्रालयस्य तत्त्वावधाने आयोजितायां चतुर्दिवसीयायां ब्रिक्स-संस्कृति-कार्यसमूहस्य सभायाम् अद्य द्वितीयदिने अधिकारि-स्तरे नीतिप्रारूपेषु विविधविषयेषु च विस्तृतः विचारविमर्शः भविष्यति।
भोपालस्थिते कुशाभाऊ-ठाकरे-अन्ताराष्ट्रिय-सम्मेलन-केन्द्रे आयोजितायां अस्यां सभायां ब्रिक्स-सदस्य-सहभागिता-देशानां दश राष्ट्राणां वरिष्ठाधिकारिणः तथा शताधिकाः विदेशप्रतिनिधयः सहभागिनः सन्ति। अद्य ब्रिक्स-संस्कृतिमन्त्रिणां घोषणापत्रस्य प्रारूपे तथा सांस्कृतिक-सहकार्यस्य अन्येषु प्राधान्यक्षेत्रेषु विस्तृतः विचारविमर्शः भविष्यति।
एतेषु प्राधान्यक्षेत्रेषु—• सांस्कृतिकपरम्परायाः संरक्षणम्,• सङ्ग्रहालयानाम् उन्नयनम्,• सांस्कृतिक-सृजनात्मक-उद्योगानां संवर्धनम्,• सांस्कृतिक-आदानप्रदानम्,• क्षमतानिर्माणम्,• ब्रिक्स-देशानां मध्ये जन-जनसम्बन्धस्य सुदृढीकरणम्
- इत्यादयः विषयाः समाविष्टाः सन्ति।
संस्कृति-कार्यसमूहस्य सभायाः अनन्तरं सायंकाले रवीन्द्र-भवने ब्रिक्स-सांस्कृतिक-महोत्सवः आयोजितः भविष्यति। अस्मिन् महोत्सवे ब्रिक्स-सदस्य-सहभागिता-देशानां प्रतिनिधिभिः विविधाः सांस्कृतिक-प्रस्तुतयः प्रदर्शिताः भविष्यन्ति। अयं कार्यक्रमः सामान्य-जनानाम् अपि कृते उद्घाटितः भविष्यति तथा सहभागी-देशानां समृद्धाः विविधाश्च प्रदर्शनकलापरम्पराः अवलोकयितुं सुवर्णावसरं प्रदास्यति। दिवसस्य समापनं संस्कृतिमन्त्रालयेन आयोजितेन रात्रिभोजेन भविष्यति।
Hindusthan Samachar / Divya Ranjan