मध्यप्रदेशः कांग्रेस पॉलिटिकल अफेयर्स इत्यस्याःसमितेः उपवेशनं 11 अगस्त दिनांके, जनआंदोलनेषु स्थानीयप्रकरणेषु निर्मास्यते रणनीतिः
विपक्षस्य भूमिका दृढीकर्तुं संगठनात्मककार्यक्रमेषु भविष्यति मथनम् : मुकेश नायकः भोपालम्, 06 अगस्तमासः (हि.स.)। मध्यप्रदेश कांग्रेसस्य मीडियाविभागस्य अध्यक्षः मुकेश नायक अवदत् यत् प्रदेश कांग्रेस कमेटी इत्यस्य पॉलिटिकल अफेयर्ससमितेः महत्त्वपूर्णम्
मुकेश नायक


विपक्षस्य भूमिका दृढीकर्तुं संगठनात्मककार्यक्रमेषु भविष्यति मथनम् : मुकेश नायकः

भोपालम्, 06 अगस्तमासः (हि.स.)। मध्यप्रदेश कांग्रेसस्य मीडियाविभागस्य अध्यक्षः मुकेश नायक अवदत् यत् प्रदेश कांग्रेस कमेटी इत्यस्य पॉलिटिकल अफेयर्ससमितेः महत्त्वपूर्णम् उपवेशनम् ११ अगस्ते भोपाले आयोज्यते। अस्मिन् उपवेशने प्रदेशप्रभारी हरीश चौधरी, पूर्वमुख्यमन्त्री दिग्विजय सिंह, प्रदेश कांग्रेसाध्यक्षः जीतू पटवारी तथा पीएसी इत्यस्य वरिष्ठसदस्याः सहभागिनः भविष्यन्ति।

मुकेशनायको गुरुवासरे प्रदेश कांग्रेस कार्यालये पत्रकारैः सह चर्चायाम् अवदत् यत् उपवेशने प्रदेशे विपक्षस्य भूमिकां अधिकां जनोन्मुखीं प्रभावकारीं च कर्तुं, संगठनस्य आगामिन्याः रणनीतेः विषये च विचारः भविष्यति। तेन उक्तं यत् जिला कांग्रेसाध्यक्षेभ्यः, जिलाप्रभारिभ्यः, विधानसभाप्रभारिभ्यश्च स्थानीयजनहितसम्बद्धविषयाणां परिचयः कृत्वा तान् संगठनस्य माध्यमेन प्रमुखतया उत्थापयितुम् निर्देशाः प्रदत्ताः। कांग्रेसः राष्ट्रियप्रदेशस्तरीयविषयैः सह स्थानीयसमस्याः अपि स्वस्य आन्दोलनस्य केन्द्रं करिष्यति।

पत्रकारवार्तायां नायकेन आरोपः कृतः यत् प्रदेशस्य सहकारीसंस्थासु, मण्डीसमितिषु, नगरीयनिकायेषु तथा अन्यासु स्वायत्तसंस्थासु लोकतान्त्रिकव्यवस्था दुर्बला जाता। तस्य दावा आसीत् यत् सहकारीबङ्केषु निर्वाचितव्यवस्थायाः स्थाने नामनिर्देशनव्यवस्था प्रवर्तितत्वात् सहकारितायाः मूलभावना प्रभाविताभवत्। तेन एतदपि आरोपितं यत् प्रदेशस्य कृषिमण्डीषु कृषकाः अव्यवस्थां सम्मुखीकुर्वन्ति। कृषकाणां स्वोपजविक्रयार्थं दीर्घकालं प्रतीक्षां कर्तव्या भवति तथा अनेकासु मण्डीषु पेयजलादीनां मूलभूतसुविधानामपि अभावः वर्तते। अपरञ्च नगरीयनिकायेषु पेयजलम्, स्वच्छता तथा अन्यनागरिकसुविधाः इत्यादीनां विषये अपि तेन शासनस्य कार्यप्रणाल्याः विषये प्रश्नाः उत्थापिताः।

मुकेश नायक दावा अकरोत् यत् क्रीडासङ्घेषु तथा अन्यासु स्वायत्तसंस्थास्वपि राजनैतिकहस्तक्षेपः वर्धितः अस्ति। तेन उक्तं यत् एतेषां सर्वेषां विषयाणां विषये पीएसी इत्यस्य उपवेशने विस्तरेण चर्चा कृता भविष्यति तथा जनान्दोलनानां संगठनात्मककार्यक्रमाणां च आगामिनी रूपरेखा निर्धारिता भविष्यति। प्रदेश कांग्रेसाध्यक्षेन जीतू पटवारी इत्यनेन सम्बद्धानां विषयाणाम् उल्लेखं कुर्वन् नायकेन आरोपः कृतः यत् कांग्रेसनेतृषु कार्यकर्तृषु च राजनैतिकदबावः क्रियते। तेन मुख्यमन्त्रिणं डॉ. मोहन यादवं निष्पक्षप्रशासनस्य सुनिश्चितीकरणार्थम् अपीलं कृत्वा उक्तं यत् लोकतान्त्रिकव्यवस्थायां राजनैतिकप्रतिद्वन्द्वितायाः स्थाने संवैधानिकप्रक्रियाणां पालनमेव भवितुमर्हति।

नायकेन भोपालस्य मास्टर प्लान इत्यस्य विषयोऽपि उत्थापितः। तस्य कथनम् आसीत् यत् राजधानीनगरस्य सुनियोजितविकासार्थं नूतनस्य मास्टर प्लान इत्यस्य प्रभावकरूपेण कार्यान्वयनम् अत्यावश्यकम् अस्ति। तेन दावा कृतः यत् अस्मिन् विलम्बस्य कारणेन नगरस्य विकासः तथा नगरीययोजनासम्बद्धाः बहवः विषयाः प्रभाविताः सन्ति।

तेन उक्तं यत् पीएसी इत्यस्य उपवेशनानन्तरं कांग्रेसः प्रदेशव्यापिनः जनहितसम्बद्धविषयेषु आन्दोलनानां संगठनात्मककार्यक्रमाणां च विस्तृतां कार्ययोजनां घोषयिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani