Enter your Email Address to subscribe to our newsletters

क्षेत्रं भविष्यति परिवादानां समस्यानां च समाधानम्
भोपालम्, 06 अगस्तमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः प्रदेशस्य सार्धाष्टकोट्यधिकजनसंख्यायाः प्रति विश्वासस्य प्रतीकभूतस्य जनविश्वासाभियानस्य शुभारम्भः शुक्रवासरे, ७ अगस्त २०२६ तः भविष्यति। शासनप्रशासनाभ्यां अभियानस्य सफलसञ्चालनार्थं सम्यक् सज्जता कृता अस्ति। मन्त्रालयात् आरभ्य जिलास्तरपर्यन्तं सर्वे अधिकारी अधुना प्रभृति प्रत्येकं शुक्रवासरे कार्यालयं विहाय क्षेत्रेषु जनसमक्षं भविष्यन्ति।
जनसम्पर्काधिकारी राजेश बैन गुरुवासरे अवदत् यत् जनविश्वासाभियानस्य उद्देश्यं क्षेत्रेषु गत्वा जनैः सह प्रत्यक्षसंवादः तथा सम्बद्धता, शिकायतानां समस्याणां च शतप्रतिशतनिराकरणम्, क्षेत्रीयवास्तविकस्थितीनां प्रतिपुष्टेः प्राप्तिः, प्रशासनस्य पर्यवेक्षणतन्त्रस्य सुदृढीकरणम्, प्रशासनस्य पारदर्शिसंवेदनशीलप्रतिमायाः निर्माणं च अस्ति।
शासनप्रशासनं भविष्यति क्षेत्रभ्रमणे
अस्मिन् अभियाने प्रत्येकसप्ताहस्य शुक्रवासरे अपरिहार्यपरिस्थितिं विहाय कस्मिन्नपि स्तरे कापि उपवेशनं न भविष्यति। अयं दिवसः केवलं क्षेत्रभ्रमणाय समर्पितः भविष्यति। भोपालतः आरभ्य सम्भागजिलस्तरपर्यन्तं सर्वे वरिष्ठाधिकारी क्षेत्रभ्रमणे भविष्यन्ति। अभियाने मुख्यमन्त्री, मन्त्रिगणः, शासनस्य वरिष्ठाधिकारी तथा स्थानीयजनप्रतिनिधयः अपि सम्मिलिताः भविष्यन्ति। अभियानस्य प्रारम्भः ७ अगस्त २०२६ तः भविष्यति। जिलासङ्ग्राहकः एकसप्ताहपूर्वमेव भ्रमणक्षेत्रं निर्धारयिष्यति तथा जनप्रतिनिधीन् अवगतं करिष्यति। माध्यमेषु अपि व्यापकप्रचारः क्रियते।
भ्रमणात् एकसप्ताहपूर्वमेव तस्मिन् क्षेत्रे सी.एम. हेल्पलाइन, जनसुनवाई तथा लोकसेवागारण्टीसम्बद्धानां लम्बितप्रकरणानां समीक्षा क्रियते। भ्रमणात् पूर्वमेव लम्बितप्रकरणानां शतप्रतिशतनिराकरणं सुनिश्चितं भविष्यति। अवशिष्टप्रकरणानां तथा भ्रमणकाले प्राप्तानाम् आवेदनानां स्थले एव निराकरणं क्रियते।
जनसंवादात् उद्योगसंवादः
अभियानस्य अन्तर्गतं जिलासङ्ग्राहकः जिलास्तरीयाधिकारिभिः सह क्षेत्रभ्रमणं करिष्यति। द्विविधौ कार्यक्रमौ आयोजयिष्येते—जनसंवादः तथा उद्योगसंवादः। एम.एस.एम.ई. तथा कुटीरोद्योगसम्बद्धानाम् उद्यमिनां समस्याः स्थले एव निराक्रियन्ते। मुख्यमन्त्री तथा मुख्यसचिवः पूर्वनिर्धारितकार्यक्रमानुसारं विभिन्नजिलेषु गमिष्यतः। मुख्यमन्त्रिणः भ्रमणक्षेत्रे एव ‘जिलासमाधानम्’ इति ऑनलाइनकार्यक्रमः आयोज्यते। भ्रमणात् पूर्वं लम्बितप्रकरणानां तथा भ्रमणोत्तरं प्राप्तानाम् आवेदनानां तुलनात्मकसमीक्षा भविष्यति। जिलानां कार्यप्रदर्शनस्य मुख्यमन्त्रिणः मुख्यसचिवस्य च स्तरे नियमितसमीक्षा क्रियते।
सम्पूर्णमभियानं सादग्या मितव्ययितया च सञ्चालितं भविष्यति। सज्जा, अलङ्कारः तथा अन्ये अनावश्यकव्ययाः परित्यज्यन्ते। वाहनानां पूलिङ्गव्यवस्था भविष्यति। शासकीयसंस्थासु अथवा सार्वजनिकस्थलेषु पूर्वनिर्मितभवनेषु एव संवादकार्यक्रमाः आयोजयिष्यन्ते।
लम्बितप्रकरणानां शतप्रतिशतनिराकरणं भविष्यति
सी.एम. हेल्पलाइन तथा जनसुनवाईमध्ये प्राप्तानां भ्रमणक्षेत्रसम्बद्धानां लम्बितशिकायतानां शतप्रतिशतनिराकरणं क्रियते। लोकसेवागारण्टीअधिनियमस्य अन्तर्गतं पञ्जीकृतानां लम्बितप्रकरणानां शतप्रतिशतनिराकरणं भविष्यति। अविवादितनामान्तरण, सीमाङ्कन, विभाजनसम्बद्धानां लम्बितप्रकरणानां शतप्रतिशतनिराकरणं तथा न्यायालयस्य आदेशानन्तरमपि राजस्वअभिलेखेषु अमलाभावसम्बद्धानां लम्बितप्रकरणानामपि शतप्रतिशतनिराकरणं क्रियते।
कृषकाणां समस्याः निराकरिष्यन्ते
सर्वेषां पात्रकृषकाणां फार्मर आई.डी. निर्माणं सुनिश्चितं भविष्यति। सर्वेषां पात्रव्यक्तीनाम् आयुष्मानकार्डनिर्माणं सुनिश्चितं भविष्यति। समग्रआई.डी. ई-केवाइसी तथा आधारकार्डनिर्माणम् अद्यतनीकरणं च सम्बन्धितानां प्रकरणानां निराकरणं भविष्यति। प्रधानमन्त्रीआवासयोजनायाः अन्तर्गतं पात्रपरिवारेभ्यः आवासनिर्माणस्य उपलब्धतायाः समीक्षा अपि क्रियते।
जनविश्वासाभियानस्य प्रमुखाः बिन्दवः
जलजीवनमिशनस्य अन्तर्गतं प्रत्येकगृहे जलोपलब्धेः तथा जलटङ्कीनिर्माणस्य स्थितेः समीक्षा क्रियते। आङ्गनवाडीकेन्द्राणां निरीक्षणं तथा कुपोषणमुक्त्यर्थं बालकानां भारोन्नतिमानयोः मापनस्य स्थितिः परीक्ष्यते। स्वास्थ्यकेन्द्राणां निरीक्षणं कृत्वा तत्र चिकित्सकानां, पैरामेडिकलकर्मचारिणां, औषधानाम्, उपकरणानां च उपलब्धता गुणवत्तापूर्णसेवानां प्रदाने च स्थितिः परीक्ष्यते। विद्यालयमहाविद्यालयानां निरीक्षणं कृत्वा विद्यार्थिनाम् उपस्थितिः अध्ययनस्य गुणवत्ता च परीक्ष्यते।
कृषिसम्बद्धाः प्रमुखविषयाः
क्षेत्रे खादबीजानाम् अन्येषां कृष्युपयोगिसामग्रीणां च उपलब्धतायाः समीक्षा क्रियते। स्थानीयराशनविक्रयकेन्द्रस्य निरीक्षणं जनप्रतिपुष्टेः ग्रहणं च भविष्यति। मार्गाः, तडागाः, अमृतसरोवराणि, बन्धाः, जलजीवनमिशनस्य संरचनाः, भवनानि, क्रीडास्थलानि, कृषिक्षेत्राणि च निरीक्ष्यन्ते। आई.टी.आई., चिकित्सामहाविद्यालयः, प्राथमिकसहकारीसमितिः, तहसीलकार्यालयः, कृष्युपजमण्डी, मदिराविक्रयकेन्द्रम्, पुलिसस्थानम्, लोकसेवाकेन्द्रम्, शासकीयदेवस्थानम्, औद्योगिकक्षेत्रम् इत्यादीनां निरीक्षणं भविष्यति।
खादबीजविक्रयकेन्द्राणि, एजेन्सयः, गैसगोदामानि, पेट्रोलपम्पाः, विस्फोटकपटाखानां अनुज्ञापत्रधारिणां विक्रयकेन्द्राणि गोदामानि, अधिकृतशस्त्रविक्रेतॄणां विक्रयकेन्द्राणि, निजीविद्यालयाः इत्यादीनामपि निरीक्षणं क्रियते। क्षेत्रस्य विधिव्यवस्थायाः अपराधनियन्त्रणस्य च समीक्षा भविष्यति। विविधसामाजिकसुरक्षापेन्शन, दिव्याङ्गपेन्शनादीनां लाभः सर्वेभ्यः पात्रहितग्राहिभ्यः सम्यक् प्राप्यते वा इति परीक्ष्यते। अन्याश्च स्थानीयाः प्रमुखसमस्याः, शिकायताः, चुनौतीः, यासां शीघ्रनिराकरणस्य अपेक्षा जनसमुदायेन क्रियते, तासां चिन्हांकनं समाधानं च भविष्यति।
मुख्यमन्त्रिणः जनविश्वासाभियानस्य संवादः, समाधानम्, संवेदनशीलता तथा सादगी—एते चत्वारः प्रमुखस्तम्भाः भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani