राष्ट्रचिन्तकः रामबहादुररायः अद्य भोपाले ‘पद्मभूषण-युगतुलसी-पण्डितरामकिङ्कर-उपाध्याय-राष्ट्रीयपुरस्कारेण’ सम्मानितः भविष्यति
भोपालम्, ०६ अगस्तमासः (हि.स.)। मध्यप्रदेश-सर्वकारस्य संस्कृतिविभागस्य अधीनस्थेन तुलसी-शोध-संस्थानेन प्रतिष्ठितः वरिष्ठः पत्रकारः, लेखकः राष्ट्रचिन्तकश्च रामबहादुररायः अद्य वर्ष-२०२६ कृते ‘पद्मभूषण-युगतुलसी-पण्डितरामकिङ्कर-उपाध्याय-राष्ट्रीयपुरस्कार
रामबहादुर राय (फाइल)


भोपालम्, ०६ अगस्तमासः (हि.स.)। मध्यप्रदेश-सर्वकारस्य संस्कृतिविभागस्य अधीनस्थेन तुलसी-शोध-संस्थानेन प्रतिष्ठितः वरिष्ठः पत्रकारः, लेखकः राष्ट्रचिन्तकश्च रामबहादुररायः अद्य वर्ष-२०२६ कृते ‘पद्मभूषण-युगतुलसी-पण्डितरामकिङ्कर-उपाध्याय-राष्ट्रीयपुरस्कारः’ प्रदास्यते।

मध्यप्रदेश-जनजातीय-सङ्ग्रहालयस्य निदेशकः डा. धर्मेन्द्रपारे अवदत् यत् अलङ्करणसमारोहः भोपालस्थे तुलसी-मानस-प्रतिष्ठानस्य मानस-भवने सायं चतुर्वादने प्रारभ्यते। अस्मिन् समारोहे राष्ट्रचिन्तकः रामबहादुररायः वर्ष-२०२६ कृते उक्तेन राष्ट्रीयपुरस्कारेण सम्मानितः भविष्यति।

रामबहादुररायः १९४६ तमस्य वर्षस्य जुलाईमासस्य प्रथमदिने उत्तरप्रदेशस्य गाजीपुरे जातः। सः हिन्दीभाषायाः वरिष्ठः पत्रकारः, लेखकः, चिन्तकश्च अस्ति। सम्प्रति सः इन्दिरा-गान्धी-राष्ट्रीय-कलाकेन्द्रस्य अध्यक्षः अस्ति। तेन सह सः देशस्य प्राचीनतमायाः बहुभाषिक-समाचार-संस्थायाः हिन्दुस्थान-समा-चारस्य समूह-सम्पादकः अपि वर्तते। समाज-राजनीति-समसामयिकविषयेषु तस्य लेखनं सम्पादनं च व्यापकं सम्मानं प्राप्तवत्।

रामबहादुररायः काशी-हिन्दू-विश्व-विद्यालयात् अर्थशास्त्रे स्नातकोत्तर-उपाधिं प्राप्तवान्। अनन्तरं राजस्थान-विश्व-विद्यालयात् पत्रकारितायां स्नातकोत्तर-उपाधिपत्रम् अधिगतवान्। सः सामाजिकक्षेत्रे महत्त्वपूर्णं योगदानम् अकरोत्। तेन बिहार-आन्दोलने सक्रियभागः गृहीतः तथा १९७१ तमे वर्षे बाङ्ग्लादेश-मुक्तिसङ्ग्रामस्य वार्ता-प्रतिवेदनम् अपि कृतम्। सः जे. बी. कृपलानी-स्मारक-न्यासस्य न्यासी अपि आसीत्।

पत्रकारिताक्षेत्रे तस्य प्रमुखं योगदानम्

संवाददाता — जनसत्ता (१९८३) मुख्यसंवाददाता — जनसत्ता (१९८४–१९८६) विशेषसंवाददाता —नवभारत टाइम्स (१९८६–१९९१) ब्यूरो-प्रमुखः — जनसत्ता (१९९१–१९९६) सम्पादकः — जनसत्ता समाचार सेवा (१९९६–२००४) प्रतिष्ठितासु पत्र-पत्रिकासु तस्य सततं लेखनं सम्पादनं च अद्यापि निरन्तरं प्रवर्तते।

Hindusthan Samachar / Divya Ranjan