Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ अगस्तमासः (हि.स.)। भारते नेटफ्लिक्स-सेवायाः दशवर्षपूर्त्याः उत्सवः आरब्धः। अस्मिन् ऐतिहासिके अवसरे नेटफ्लिक्स-संस्थायाः सह-मुख्यकार्य-निर्वाहकः टेडसारण्डोसः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह अमिलत्। प्रधानमन्त्री मोदी एतस्मिन् मिलने प्रसन्नतां व्यक्त्वा बुधवासरे रात्रौ एक्स इति सामाजिक-माध्यमे स्वस्य सन्देशं सह छायाचित्रं प्रकाशितवान्। उभयोः मध्ये मनोरञ्जन-क्षेत्रस्य वैश्विकविस्तारसम्बद्धाः विविधाः विषयाः चर्चिताः।
प्रधानमन्त्री मोदी अलिखत्—टेडसारण्डोसेन सह मिलित्वा महती प्रसन्नता अभवत्। भारतस्य माध्यम-मनोरञ्जनक्षेत्रस्य अपारसम्भावनाः अस्माभिः चर्चिताः। भारते कथाकथनस्य समृद्धा परम्परा अस्ति तथा च असाधारणं सृजनात्मकप्रतिभासम्पदं भाण्डारम् अपि विद्यते। एतस्य समुचितोपयोगेन वैश्विक-सामग्री-निर्माणकेन्द्ररूपेण भारतस्य स्थानं अधिकं सुदृढं कर्तुं शक्यते।
प्रधानमन्त्रिणा स्वसन्देशेन सह नेटफ्लिक्स-इण्डिया इत्यस्य प्रकाशनमपि समाविष्टम्। तस्मिन् उक्तम् — भारते नेटफ्लिक्स-सेवायाः दशवर्षपूर्त्याः उत्सवः। अस्माकं सह-मुख्यकार्यनिर्वाहकस्य टेडसारण्डोसस्य माननीयेन प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना सह मिलनम् अस्माकं कृते गौरवस्य विषयः आसीत्। उभाभ्यां भारतस्य माध्यम-मनोरञ्जन-उद्योगं वैश्विकस्तरे प्रतिष्ठापयितुं समानदृष्टि-कोणः चर्चितः।”
नेटफ्लिक्स-इण्डिया इत्यनेन अपि घोषितम् यत् अस्यै दिशि अग्रे गन्तुं “नेटफ्लिक्स-इण्डिया स्टोरीटेलिङ्ग इनिशिएटिव” इति नवीनः उपक्रमः प्रारब्धः। अयं उपक्रमः भारतीय-सृजनात्मक-प्रौद्योगिकी-संस्थानम् तथा राष्ट्रीय-चलचित्र-विकास-निगमः इत्येताभ्यां सह कौशलविकास-शिक्षाक्षेत्रयोः सहभागितया भारतस्य नवोदितसृजनात्मकप्रतिभानां संवर्धने सहायकः भविष्यति।
Hindusthan Samachar / Divya Ranjan