प्रधानमन्त्रिणा मोदिना सह नेतन्याहू-दूरभाषसम्भाषणम्
नवदिल्ली, ०६ अगस्तमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह गुरुवासरसायं इजरायलदेशस्य प्रधानमन्त्री बेञ्जामिन् नेतन्याहू दूरभाषमाध्यमेन सम्भाषणं कृतवान्। उभाभ्यां नेतृभ्यां भारत-इजरायलयोर्मध्ये वर्धमानानां सामरिकसम्बन्धानां समीक्षा कृता तथा प
प्रधानमंत्री नरेंद्र मोदी से  प्रधानमंत्री बेंजामिन नेतन्याहू ने की टेलीफोन पर बातचीत


नवदिल्ली, ०६ अगस्तमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह गुरुवासरसायं इजरायलदेशस्य प्रधानमन्त्री बेञ्जामिन् नेतन्याहू दूरभाषमाध्यमेन सम्भाषणं कृतवान्। उभाभ्यां नेतृभ्यां भारत-इजरायलयोर्मध्ये वर्धमानानां सामरिकसम्बन्धानां समीक्षा कृता तथा परस्परसहयोगं निरन्तरं सुदृढीकर्तुं सहमतिः व्यक्ता।

प्रधानमन्त्रीकार्यालयस्य अनुसारेण उभाभ्यां नेतृभ्यां भारत-इजरायलयोर्मध्ये रक्षा, कृषिः, विज्ञानम्, प्रौद्योगिकी, नवोन्मेषः तथा अन्येषु क्षेत्रेषु प्रवर्तमानस्य सहयोगस्य विषये चर्चा कृता। उभौ देशौ स्वीयां विशिष्टां सामरिक-सहभागितां अधिकां सुदृढां करिष्यतः, येन उभयदेशयोः लाभः भविष्यति।

प्रधानमन्त्री मोदी तथा नेतन्याहू पश्चिम-एशियायाः नवीन-घटनाक्रमान् अपि विषये विचारविनिमयं कृतवन्तौ। उभाभ्यां नेतृभ्यां क्षेत्रस्य वर्तमानस्थितेः विषये चर्चा कृता तथा परस्परसम्पर्कं निरन्तरं स्थापयितुं सहमतिः व्यक्ता।

Hindusthan Samachar / Divya Ranjan