Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः एक्स इति सामाजिकमाध्यमे प्रकाशितसन्देशे पृथिवीमातुः सद्गुणानां स्मरणं कृत्वा तस्याः सेवायाः सङ्कल्पं व्यक्तवान्। सुभाषितं लिखन् सः अवदत् यत् पृथिवीमातुः अङ्के सर्वविधाः वनस्पतयः औषधयश्च पल्लवन्ते च।
सुभाषितम् -विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।शिवां स्योनामनु चरेम विश्वहा॥
एषः मन्त्रः अथर्ववेदस्य भूमिसूक्तात् (काण्डः १२, सूक्तम् १, मन्त्रः १७) गृहीतः अस्ति। अस्मिन् पृथिवीमातुः प्रति प्रगाढः आदरः, पर्यावरणसंरक्षणस्य सन्देशः तथा च विश्वकल्याणस्य कामना प्रतिपादिता अस्ति।
प्रधानमन्त्रिणा स्वसन्देशे अस्य सुभाषितस्य अर्थोऽपि प्रदत्तः—“यस्यां सर्वविधाः श्रेष्ठाः वनस्पतयः औषधयश्च उत्पद्यन्ते, सा पृथिवी माता विस्तृता स्थिरा च भवतु। विद्या-शौर्य-सत्य-स्नेहादिभिः सद्गुणैः पोषिता, सर्वहित-कारिणी, सुखसमृद्धिप्रदा च एषा मातृभूमिः। वयं तस्याः निरन्तरं सेवां कुर्मः।”
Hindusthan Samachar / Divya Ranjan