रक्षासंसदीयपरामर्शसमितेः सभायां 'प्रादेशिकसेना' इत्यस्य विषये चर्चा, बहवः महत्त्वपूर्णाः विचाराः प्रदत्ताः
– केरल, ओडिशा तथा असमराज्येषु जलौघपीडाकाले सहायता-उद्धारकार्येषु भूमिकायाः प्रशंसा कृता नवदिल्ली, ०६ अगस्तमासः (हि.स.)। गुरुवासरे नवदिल्ली इत्यत्र रक्षा-मन्त्रालयस्य संसदीयपरामर्शसमितेः सभायां ‘प्रादेशिकसेना’ इति विषयः चर्चायाः केन्द्रबिन्दुरासीत्
रक्षा मंत्री राजनाथ सिंह


– केरल, ओडिशा तथा असमराज्येषु जलौघपीडाकाले सहायता-उद्धारकार्येषु भूमिकायाः प्रशंसा कृता

नवदिल्ली, ०६ अगस्तमासः (हि.स.)। गुरुवासरे नवदिल्ली इत्यत्र रक्षा-मन्त्रालयस्य संसदीयपरामर्शसमितेः सभायां ‘प्रादेशिकसेना’ इति विषयः चर्चायाः केन्द्रबिन्दुरासीत्। रक्षामन्त्रिणः राजनाथ-सिंहस्य अध्यक्षतायां सम्पन्नायां सभायां वरिष्ठाधिकारिभिः समितेः सदस्येभ्यः प्रादेशिकसेनायाः अधिदेशः, भूमिका तथा प्रमुखोपलब्धयः विस्तरेण निवेदिताः। समितेः सदस्यैः बलस्य अधिकसुदृढी-करणाय तथा समग्रप्रभाव-शीलतावर्धनाय बहुमूल्याः विचाराः प्रदत्ताः।

स्वीयसम्बोधने रक्षामन्त्री अवदत् यत् रक्षाबलानां भूमिका मुख्यतया सुरक्षासम्बद्धविषयेषु एव केन्द्रिता भवति। तथापि प्रादेशिकसेना पर्यावरणसंरक्षणे सामाजिककार्येषु च महत्त्वपूर्णं योगदानमपि ददाति। तेन उक्तं यत् प्रादेशिकसेना ‘नागरिक-सैनिक’ अवधारणायाः सजीवं उदाहरणम् अस्ति। अस्याः सदस्याः असैनिककार्येषु संलग्नाः सन्तोऽपि सीमासुरक्षां तथा आन्तरिकसुरक्षां संरक्षितुं सैन्यवेषं धारयन्ति। रक्षामन्त्री पुनरपि प्रतिपादितवान् यत् प्रादेशिकसेना प्रशिक्षितसैनिकानां आरक्षितबलं निर्माय रक्षाबलानां सामर्थ्यं वर्धयति, ये आवश्यकता उपस्थितौ शीघ्रमेव नियोक्तुं शक्यन्ते। सेवाकालस्य समाप्तेः अनन्तरं नागरिकजीवने प्रत्यागच्छन्तः कर्मिणः समाजस्य सेनायाश्च मध्ये सजीवसेतुरूपेण कार्यं कुर्वन्ति।

रक्षामन्त्री अवदत् यत् प्रादेशिकसेना प्रशिक्षितं, प्रेरितं, सशक्तञ्च बलम् अस्ति, यस्मिन् प्रायः ४४,४०० कर्मिणः तथा ५९ विविधाः एककाः सन्ति। प्राकृतिकविपत्तिषु त्वरितसहायता-उद्धारसहायताप्रदाने एतत् बलम् अग्रणीं भूमिकां निर्वहति। तेन केरलराज्ये जलौघे, ओडिशाराज्ये चक्रवाते, अधुना असमराज्ये जलौघे च सहायता-उद्धारकार्येषु तथा आवश्यकजनानां चिकित्सासहायताप्रदाने प्रादेशिकसेनायाः योगदानस्य प्रशंसा कृता। पर्यावरणप्रबन्धने जलवायुपरिवर्तन-शमनकार्येषु च तस्याः योगदानस्य प्रशंसां कुर्वन् सः अवदत् यत् प्रादेशिकसेनायाः पारिस्थितिककार्यबलैः अद्यावधि प्रायः १० कोटि वृक्षाः रोपिताः, तेषां मध्ये ८०–८५ प्रतिशतं वृक्षाः अद्यापि जीविताः सन्ति।

तेन जम्मू-कश्मीरप्रदेशे नियुक्तया प्रादेशिकसेनया ‘हर घर तिरंगा’ अभियानस्य नूतनशिखरप्राप्त्यर्थं कृतानां प्रयत्नानामपि प्रशंसा कृता। सभायां ‘नागरिक-सैनिक’ अवधारणायाः मूर्तस्वरूपेण, राष्ट्रीयसुरक्षासुदृढीकरणे, आपद्प्रतिक्रियायाम्, पर्यावरणसंरक्षणे तथा राष्ट्रनिर्माणे प्रादेशिकसेनायाः महत्त्वपूर्णा भूमिका प्रकाशिता। समितेः समक्षं टेरिटोरियल आर्मी इत्यस्य उपलब्धयः तथा भावीकार्ययोजनायाः विषये विस्तृतं विवरणं प्रस्तुतम्। सदस्यैः देशसेवायां तस्य प्रभावशीलतावर्धनाय बहुमूल्याः विचाराः अपि प्रदत्ताः।

सभायां रक्षाराज्यमन्त्री संजयसेठः, चीफ ऑफ डिफेन्स स्टाफ जनरल एन. एस. राजासुब्रमणिः, चीफ ऑफ आर्मी स्टाफ जनरल धीरजसेठः, रक्षासचिवः राजेश-कुमारसिंहः, सचिवः संजीवकुमारः, सचिवः (रक्षावित्तम्) विश्वजीतसहायः तथा अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan