Enter your Email Address to subscribe to our newsletters


लखनऊ, 06 अगस्तमासः (हि.स.)।
उत्तरप्रदेशस्य जलशक्तिमन्त्री स्वतन्त्रदेवसिंहः गुरुवासरे राष्ट्रधर्म-कार्यालये राष्ट्रधर्मपत्रिकायाः अगस्तमासीयाङ्कस्य लोकार्पणम् अकरोत्।
अस्मिन् अवसरे पण्डितदीनदयालोपाध्यायस्य स्मरणं कुर्वन् स्वतन्त्रदेवसिंहः अवदत् यत् राष्ट्रधर्मपत्रिका सर्वैः अवश्यं पठनीया। अस्याः पत्रिकायाः कृते श्रद्धेयेन अटलबिहारीवाजपेयिना, नानाजीदेशमुखेन, भाऊरावदेवरसेन, रज्जूभैयेन च इत्यादिभिः महनीयैः विभूतिभिः सक्रियसहयोगः प्रदत्तः। उत्तमा वार्ता एषा यत् अस्यां पत्रिकायां विचाराः सन्त्येव, अपितु परिवारस्य सर्वेषां सदस्याणां कृते अपि किञ्चित् न किञ्चित् पठनीयम् अवश्यमस्ति।
जलशक्तिमन्त्री अवदत् यत् प्रदेशशासनं निरन्तरं प्रयतते यत् प्रत्येकं जनं प्रति स्वच्छं जलम् उपलभ्येत। सः अवदत् यत् श्रद्धेयः अटलजी उक्तवान् आसीत् यत् भविष्यो जलार्थं युद्धानि भविष्यन्ति, किन्तु भारतं अस्याः समस्यायाः प्रभावात् सुरक्षितं भविष्यति।
उल्लेखनीयं यत् राष्ट्रधर्मपत्रिकायाः नवम्बरमासीयाङ्कः ‘जलम् अस्ति चेत् श्वः अस्ति’ इति विशेषाङ्करूपेण प्रकाशितः भविष्यति। अस्याः पूर्वं जलशक्तिमन्त्रिणः स्वागतं राष्ट्रधर्मस्य निदेशकः अभिनव भार्गवः अकरोत्। धन्यवादज्ञापनं डॉ. ओमप्रकाशः अकरोत्। राष्ट्रधर्मस्य प्रभारीनिदेशकः सर्वेशचन्द्रद्विवेदी कार्यक्रमस्य अध्यक्षताम् अकरोत्।
-----------
Hindusthan Samachar / Dheeraj Maithani