Enter your Email Address to subscribe to our newsletters

रायपुरम्, ०६ अगस्तमासः (हि.स.)। विश्व-स्तनपान-सप्ताहस्य (१–७ अगस्त) अवसरस्य निमित्तं छत्तीसगढ-शासनस्य स्वास्थ्य-परिवारकल्याणविभागेन राष्ट्रीयस्वास्थ्याभियानस्य तथा राज्य-स्वास्थ्यप्रणाली-संसाधनकेन्द्रस्य सह-योगेन अद्य गुरुवासरे रायपुरे राज्यस्तरीयः कार्यक्रमः आयोजितः भविष्यति।
कार्यक्रमः प्रातः ११ वादनात् अपराह्णे १ वादनपर्यन्तं पण्डित-जवाहरलाल-नेहरू-स्मृति-चिकित्सामहाविद्यालयपरिसरे स्थिते अटलबिहारीवाजपेयी-सभागारस्य नूतनसभागारे भविष्यति।
कार्यक्रमस्य अध्यक्षतां स्वास्थ्य-परिवार-कल्याणमन्त्री श्यामबिहारी जायसवाल महोदयः करिष्यति। स्वास्थ्य-परिवार-कल्याणविभागस्य सचिवः अमित कटारिया तथा स्वास्थ्यसेवानाम् आयुक्त-सह-निदेशकः संजीव: झा विशिष्टातिथि-रूपेण उपस्थितौ भविष्यतः।
अस्य कार्यक्रमस्य उद्देश्यं मातृदुग्धस्य महत्त्वविषये जनजागरूकतां वर्धयितुम्, नवजातशिशूनां शिशूनां च समुचितपोषणं उत्तमस्वास्थ्यं च प्रोत्साहयितुम्, मातृ-शिशु-स्वास्थ्यसेवानां सुदृढीकरणं च अस्ति। अस्मिन् कार्यक्रमे स्वास्थ्य-विभागस्य अधिकारीणः, चिकित्सा-विशेषज्ञाः, परिचारिकाः, मितानिन-कार्यकर्त्र्यः, जनप्रतिनिधयः तथा विविधसामाजिकसङ्गठनानां प्रतिनिधयः सहभागिनः भविष्यन्ति।
अस्मिन्नवसरे राज्यस्य दश मातरः ‘माता यशोदा सम्मान’ इति सम्माननेन सम्मानिताः भविष्यन्ति। एताः ताः मातरः सन्ति, याभिः स्वमातृदुग्धस्य दानं कृतम् अथवा अन्येभ्यः शिशुभ्यः स्तनपानं प्रदाय मानवतायाः मातृत्वस्य च अनुकरणीय: दृष्टान्तः प्रस्तुतः। एतेषु शिशुषु केषाञ्चित् मातृषु पर्याप्तं दुग्धम् उपलब्धं नासीत्, केषाञ्चित् मातरः च दिवङ्गताः अभवन्।
कार्यक्रमस्य समये छत्तीसगढ-शासनं राज्यस्य प्रथमस्य मातृदुग्धकोषस्य स्थापनायाः घोषणामपि करिष्यति। अस्याः पहलायाः उद्देश्यं तादृशेभ्यः नवजात-शिशुभ्यः शिशुभ्यश्च सुरक्षितं, गुणवत्तायुक्तं पर्याप्तं च मातृदुग्धम् उपलब्धं कर्तुम् अस्ति, येभ्यः कस्यचित् कारणस्य वशात् स्वमातुः दुग्धं प्राप्तुं न शक्यते।
स्वास्थ्यविभागस्य अनुसारेण मातुः दुग्धं शिशोः कृते सर्वोत्तमं, सम्पूर्णं, प्राकृतिकं च आहारम् अस्ति। तत् शिशोः रोगप्रति-रोधकक्षमतां वर्धयति, मातुः स्वास्थ्याय अपि अत्यन्तं हितकरम् अस्ति। विश्व-स्तनपान-सप्ताहस्य माध्यमेन समाजे स्तनपानं प्रति सकारात्मक-भावनायाः संवर्धनाय तथा मातृभ्यः आवश्यक-सहयोगस्य प्रदाने विशेषं बलं दीयते।
Hindusthan Samachar / Divya Ranjan