लोकसभाध्यक्षः, केन्द्रीयगृहमन्त्री अन्ये च नेतारः सुषमास्वराजस्याः पुण्यतिथौ श्रद्धाञ्जलिम् अर्पितवन्तः
नवदिल्ली, ०६ अगस्तमासः (हि.स.)। लोकसभाध्यक्षः ओमविरला, केन्द्रीयगृह-सहकारितामन्त्री अमितशाहः तथा अन्ये बहवः नेतारः अद्य पूर्वविदेशमन्त्री पद्मविभूषण-सुषमास्वराजः इत्यस्याः पुण्यतिथौ तस्यै विनम्रां श्रद्धाञ्जलिम् अर्पितवन्तः। लोकसभाध्यक्षः ओमविरला
प्रतीकात्मक


नवदिल्ली, ०६ अगस्तमासः (हि.स.)। लोकसभाध्यक्षः ओमविरला, केन्द्रीयगृह-सहकारितामन्त्री अमितशाहः तथा अन्ये बहवः नेतारः अद्य पूर्वविदेशमन्त्री पद्मविभूषण-सुषमास्वराजः इत्यस्याः पुण्यतिथौ तस्यै विनम्रां श्रद्धाञ्जलिम् अर्पितवन्तः।

लोकसभाध्यक्षः ओमविरला एक्स इति सामाजिकमाध्यमे अलिखत्—पूर्वविदेशमन्त्रिण्यै पद्मविभूषण-सुषमास्वराजः इत्यस्यै पुण्यतिथौ विनम्रां श्रद्धाञ्जलिम्। स्वस्य प्रखरवक्तृत्वेन, संवेदनशीलनेतृत्वेन तथा राष्ट्रहिते अचलसमर्पणेन सा भारतीयराजनीत्यां विशिष्टं स्थानम् अलभत। राष्ट्रसेवायै तस्याः निष्ठा, कार्यशैली, जनहित-प्रतिबद्धता च सर्वदा प्रेरणादायिनी भविष्यति।”

अमितशाहः उक्तवान् यत् सुषमास्वराजः स्वस्य अनुशासनस्य, कर्मठतायाः, संघर्षशीलतायाश्च बलेन सङ्घटनात् आरभ्य सर्वकारपर्यन्तं समस्तदायित्वानि उत्कृष्टतया निर्वुढवती। विदेशमन्त्रालयं सामान्यजनैः सह सम्बद्धं कर्तुं तस्याः योगदानं तथा सरलजीवनं च सदा स्मरणीयं भविष्यति।

रक्षामन्त्री राजनाथसिंहः अवदत् यत् सुषमास्वराजः प्रभावशालिनी वक्त्री आसीत् तथा स्वस्य सरल-सौम्य-व्यवहारेण अपि प्रसिद्धा आसीत्। प्रभावशालिन्या व्यक्तित्वेन, संवेदनशील-नेतृत्वेन, राष्ट्रसेवायाः समर्पणेन च सा भारतीयराजनीतौ कूटनीत्यां च अमिटां छविम् अङ्कितवती। वैश्विकमञ्चे भारतस्य स्वरं सुदृढं कर्तुं तस्याः योगदानं सर्वदा स्मरणीयं भविष्यति।

केन्द्रीय-मार्ग-परिवहन-राजमार्गमन्त्री नितिनगडकरी पूर्वकेन्द्रीयमन्त्रिण्याः सुषमास्वराजः इत्यस्याः स्मृतिदिवसे तस्यै विनम्रमभिवादनम् अर्पितवान्।

भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्षः नितिननवीनः अवदत् यत् सुषमास्वराजः सङ्घटनात् आरभ्य शासनपर्यन्तं स्वस्य अद्वितीय-नेतृत्वक्षमतायाः अमिटां छविम् अङ्कितवती। प्रखरवक्त्री जनप्रियनेत्री च भूत्वा सा भारतीयराजनीतये नूतनां दिशं प्रदत्तवती। विदेशमन्त्रिणीरूपेण भारतीय-कूटनीतिं वैश्विकस्तरे नूतन-शिखरं नीतवती तथा विश्वे भारतस्य प्रतिष्ठां सुदृढीकृतवती। तस्याः सरल-व्यक्तित्वं, दृढनेतृत्वं, राष्ट्रसेवायाः समर्पणं च सर्वेषां कृते सदा प्रेरणास्रोतः भविष्यति।

केन्द्रीय-कृषि-किसान-कल्याणमन्त्री शिवराजसिंहचौहानः अवदत् यत् “सुषमादीदी ज्येष्ठभगिन्याः इव स्नेहं वितरन्ती आसीत्। तस्याः मुखे तेजः, वाण्यां च ओजः आसीत्; सरस्वती इव तस्याः जिह्वायां विराजमाना आसीत्। तस्याः मङ्गलविचाराणां पुण्यज्योतिः सदा जनसेवामार्गम् आलोकयन्ती राष्ट्रसमाज-सेवायै अस्मान् प्रेरयतु।”

केन्द्रीय-वस्त्रमन्त्री गिरिराजसिंहः अपि उक्तवान् यत् भारतीयराजनीतौ तस्याः अद्वितीयं योगदानम्, प्रखरवक्त्रीरूपेण तस्याः ख्यातिः, जनकल्याणे समर्पणं च सर्वदा अविस्मरणीयं भविष्यति।

Hindusthan Samachar / Divya Ranjan