Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ अगस्तमासः (हि.स.)। भारतस्य समृद्धसांस्कृतिकपरम्परां, विवि-धप्राकृतिकदृश्यान् तथा पर्यटन-स्थलानि वैश्विकमञ्चे प्रतिष्ठापयितुं पर्यटन-संस्कृतिमन्त्रालयस्य नेटफ्लिक्स-संस्थया सह सहभागिता कृता।
भारते नेटफ्लिक्स-संस्थायाः दशवर्षपूर्त्य-वसरे बुधवासरे नवदिल्ली इत्यत्र स्थितायां नेशनल गैलरी ऑफ मॉडर्न आर्ट इत्यत्र विशेषकार्यक्रमस्य आयोजनम् अभवत्। अस्मिन् कार्यक्रमे केन्द्रीयसंस्कृति-पर्यटनमन्त्री गजेन्द्रसिंहशेखावतः तथा नेटफ्लिक्स-संस्थायाः सह-मुख्यकार्यनिर्वाहकाधिकारी टेड्सारण्डोसः इत्येतयोः संवादः सम्पन्नः। अस्यां परिचर्चायां कथामाध्यमेन जनान् यात्रायै कथं प्रेरयितुं शक्यते तथा भारतस्य वैश्विकसौम्यशक्तिः कथं सुदृढीकर्तुं शक्यते इति विषये विचारविमर्शः कृतः।
शेखावतः चलचित्रस्य भूमिकां प्रतिपादयन् अवदत्— “चलचित्रं केवलं मनोरञ्जनमात्रं नास्ति; अपितु तत् संस्कृतेः, परम्परायाः तथा पर्यटनस्य मध्ये सेतुरिव कार्यं करोति। प्रत्येकस्मिन् भारतीयकथानके जगतः कस्मिंश्चित् कोणे उपविष्टं जनं भारतागमनाय प्रेरयितुं सामर्थ्यमस्ति।”
तेन उक्तं यत् ‘अतुल्यभारत’ इति डिजिटलमञ्चे इत्यस्य समावेशः भारतस्य सांस्कृतिकवैविध्यस्य प्रदर्शनाय तथा देशस्य वैश्विकसौम्यशक्तेः संवर्धनाय संयुक्तः महत्त्वपूर्णः प्रयत्नः अस्ति।
अस्याः ऐतिहासिकसहभागितायाः अन्तर्गतं पर्यटनमन्त्रालयेन स्वस्य डिजिटलमञ्चे विशेषसुविधा समावेशिता। अनेन विश्वस्य यात्रिणः भारतस्य तानि रमणीयस्थानानि, उत्सवान्, वन्यजीवान् तथा ऐतिहासिक-स्थलानि ज्ञातुं शक्नुवन्ति, ये नेटफ्लिक्स-संस्थायाः लोकप्रियचलचित्रेषु धारावाहिकेषु च प्रदर्शिताः सन्ति। अस्य मुख्योद्देश्यं दर्शकाणाम् अनुभूतिं वास्तविकयात्रानुभवे परिवर्तयितुम् अस्ति।कार्यक्रमे उपस्थितः पर्यटनसचिवः भुवनेशकुमारः अवदत् यत् सृजनात्मक-उद्योगस्य तथा सर्वकारस्य मध्ये एतादृशी सामरिकसहभागिता पर्यटन-स्थलानां अन्वेषणस्य अनुभवस्य च पद्धतिषु महत्त्वपूर्णं परिवर्तनम् आनयति। प्रामाणिककथाः न केवलं स्थायीपर्यटनम् प्रोत्साहयन्ति, अपितु स्थानीयसमुदायानां कृते आर्थिकावसरानपि सृजन्ति।
अस्मिन् अवसरे पर्यटनमन्त्रालयेन नेटफ्लिक्स-संस्थया सह संयुक्तरूपेण निर्मिते द्वे विशेषचलचित्रे अपि प्रदर्शिते। तयोः प्रथमं चलचित्रं भारतस्य असाधारणजैवविविधतायाः तथा वन्यजीव-पर्यटनानुभवानां विषये आसीत्, द्वितीयं च देशस्य समृद्धां सजीवां च सांस्कृतिक-परम्परा समर्पिता आसीत्।
Hindusthan Samachar / Divya Ranjan