प्रदेशे त्रयाणां नूतनानां निजी विश्वविद्यालयानां संचालनाय अमिलत् हरितध्वजनिर्देशः, उच्च शिक्षा मंत्री अददात् अनुज्ञापत्रम्
लखनऊ, 06 अगस्तमासः (हि.स.)।उत्तरप्रदेशशासनं राज्यं उच्चशिक्षायाः अनुसन्धानस्य च प्रमुखकेन्द्ररूपेण विकसितुं निरन्तरं प्रयतते। अस्यैव क्रमस्य अन्तर्गतं प्रदेशस्य उच्चशिक्षामन्त्री योगेन्द्रउपाध्यायः लखनऊस्थिते स्वकीयशासकीयनिवासे प्रदेशे स्थाप्यमानान
निजी विश्वविद्यालयों के प्रतिनिधियों को पत्र सौंपते मंत्री योगेन्द्र उपाध्याय


लखनऊ, 06 अगस्तमासः (हि.स.)।उत्तरप्रदेशशासनं राज्यं उच्चशिक्षायाः अनुसन्धानस्य च प्रमुखकेन्द्ररूपेण विकसितुं निरन्तरं प्रयतते। अस्यैव क्रमस्य अन्तर्गतं प्रदेशस्य उच्चशिक्षामन्त्री योगेन्द्रउपाध्यायः लखनऊस्थिते स्वकीयशासकीयनिवासे प्रदेशे स्थाप्यमानानां त्रयाणां नवीनानां निजीविश्वविद्यालयानां प्रबन्धकान् ‘सञ्चालनप्राधिकारपत्रम्’ (अनुज्ञापत्रम्) प्रदत्तवान्। योगिशासनस्य अस्याः पहलायाः फलस्वरूपं गाजियाबाद, कानपुर, फतेहपुरजनपदेषु उच्चशिक्षायाः, प्राविधिकशिक्षायाः, कृषिशिक्षायाश्च विस्तारः भविष्यति तथा युवभ्यः स्वीयेष्वेव क्षेत्रेषु उत्तमाः शैक्षणिकावसराः प्राप्स्यन्ते।

उच्चशिक्षामन्त्री योगेन्द्रउपाध्यायः गाजियाबादजनपदे ‘अजयकुमारगर्गविश्वविद्यालयस्य’ सञ्चालनार्थं ‘इण्डियन इन्स्टिट्यूट् ऑफ् मैनेजमेण्ट् एण्ड् इञ्जिनियरिङ्ग् सोसायटी’, गाजियाबादस्य सचिवाध्यक्षाय, कानपुरनगरस्य बिल्हौरक्षेत्रे ‘महर्षिमहेशयोगी इण्टरनेशनल् एग्रीकल्चरविश्वविद्यालयस्य’ सञ्चालनार्थं ‘स्वामीब्रह्मानन्दसरस्वती चैरिटेबल ट्रस्ट’, देहलीनगरस्य सचिवाय तथा फतेहपुरजनपदे ‘ठाकुरयुगराजसिंहविश्वविद्यालयस्य’ सञ्चालनार्थं ‘एङ्ग्लो संस्कृत कॉलेज’, फतेहपुरस्य अध्यक्षाय आधिकारिकं सञ्चालनप्राधिकारपत्रं समर्पितवान्।

उच्चशिक्षामन्त्री प्राधिकारपत्रं समर्पयन् सम्बन्धितसंस्थाभ्यः अपेक्षाम् अकरोत् यत् ताः शासननिर्धारितमानदण्डानां, नियमानां, शर्तानां च सम्यगनुपालनं कृत्वा गुणवत्तायुक्तां, रोजगारोन्मुखीं, मूल्याधारितां च शिक्षां प्रदास्यन्ति। सः अवदत् यत् योगिशासनं प्रदेशे निजीनिवेशस्य प्रोत्साहनद्वारा उच्चशिक्षायाः आधारसंरचनां सुदृढां करोति, येन राज्यस्य विद्यार्थिनः आधुनिकशिक्षणसंसाधनानां उत्कृष्टशैक्षणिकवातावरणस्य च लाभं प्राप्नुयुः।

-------------------

Hindusthan Samachar / Dheeraj Maithani