Enter your Email Address to subscribe to our newsletters

घुमन्तुविकासमण्डलस्य घोषणया प्रमुदितेन विमुक्तघुमन्तुसमाजेन मुख्यमन्त्रिणः अभिनन्दनम्
घुमन्तुविकासमण्डले सर्वेषां समुदायानां प्रतिनिधित्वं सुनिश्चितं भविष्यति। प्रत्येकस्य स्वरः सर्वकारपर्यन्तं प्राप्स्यति — मुख्यमन्त्री।
लखनऊ, ०६ अगस्त (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् अधुना घुमन्तुसमाजः द्वाराद्द्वारं भ्रमित्वा क्लेशान् सोढुं विवशो न भविष्यति। द्वियन्त्रसर्वकारः तेषां सम्मानजनकजीवनस्य अधिकारं प्रदातुं, सर्वाभिः जनकल्याणकारीयोजनाभिः तान् सम्बद्धान् कर्तुं, तेषां समग्रविकासं च सुनिश्चितं कर्तुं पूर्णप्रतिबद्धतया कार्यं करिष्यति। घुमन्तुविकासमण्डलं केवलं प्रशासनिकव्यवस्था न, अपितु दीर्घकालमुपेक्षितस्य विमुक्तघुमन्तुसमाजस्य न्यायसम्मानावसरप्राप्तेः सशक्तमाध्यमं भविष्यति।
प्रदेशमन्त्रिपरिषदः घुमन्तुविकासमण्डलस्य गठनसम्बद्धनिर्णयानन्तरं गुरुवासरे समाजस्य पक्षतः आयोजिते आभाराभिनन्दनकार्यक्रमे सम्बोधनं कुर्वन् मुख्यमन्त्री अवदत् यत् वर्षे २०१४ तमे प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रदत्तः “सबका साथ, सबका विकास” इति मन्त्रः अद्य समाजस्य अन्तिमव्यक्तेः पर्यन्तं विस्तारितः अस्ति। जाति, क्षेत्र, भाषा अथवा अन्यकस्यापि भेदस्य विना प्रत्येकं पात्रजनं शासनस्य योजनाभिः लाभान्वितं कर्तुमेव घुमन्तुविकासमण्डलस्य स्थापना कृता अस्ति।
मुख्यमन्त्री अवदत् यत् आङ्ग्लशासकैः वर्षे १८७१ तमे क्रिमिनल ट्राइब्स एक्ट् इत्यस्य माध्यमेन ते वीरसमुदायाः अपराधिनः घोषिताः, ये भारतस्य स्वातन्त्र्यसंग्रामे अग्रणीभूमिकां निर्वहन्तः आसन्। १८५७ तमे प्रथमस्वातन्त्र्यसमरानन्तरम् आङ्ग्लशासकैः सुनियोजितषड्यन्त्रेण एतासु जातिषु कलङ्कः आरोपितः, येन तेषां सामाजिकसम्मानः नश्येत्। स्वतन्त्रभारते बाबासाहेबः डॉ. भीमरावआम्बेडकरः एतदन्यायं निरस्य तासां जातीनां विमुक्तजाति इति सम्मानं प्रदत्तवान्, किन्तु तेषां समुचितविकासार्थं अपेक्षिताः प्रयत्नाः दीर्घकालं न कृताः। प्रथमवारं प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे एतेषां कृते राष्ट्रियस्तरे आयोगस्य गठनम् अभवत्, तस्यैव भावनायाः अनुसरणं कुर्वती उत्तरप्रदेशसर्वकारेण घुमन्तुविकासमण्डलस्य गठनस्य निर्णयः कृतः।
मुख्यमन्त्री अवदत् यत् गतवर्षे घुमन्तुसमाजस्य सम्मेलनसमये तेषां पुरतः मण्डलगठनस्य प्रस्तावः प्रस्तुतः आसीत्, तदा एव तेन अस्य घोषणा कृता आसीत्। अधुना तस्य गठनप्रक्रिया आरब्धा अस्ति। सः विश्वासं व्यक्तवान् यत् शीघ्रमेव मण्डलस्य गठनं सम्पन्नं भविष्यति। तस्य संरचना च एतादृशी भविष्यति, यस्यां विविधघुमन्तुविमुक्तजातीनां प्रतिनिधित्वं सुनिश्चितं भविष्यति, येन तेषां स्वरः प्रत्यक्षतया सर्वकारपर्यन्तं प्राप्स्यति तथा तेषां विकासयोजनाः अधिकप्रभावीरीत्या सञ्चालयितुं शक्यन्ते।
मुख्यमन्त्री अवदत् यत् द्वियन्त्रसर्वकारेण वनटाङ्गिया, मुसहर, थारू, गौड़, चेरो, बुक्सा, कोल, सहरिया इत्यादयः बहवः वञ्चितसमुदायाः प्रथमवारं व्यापकतया शासनस्य योजनाभिः सम्बद्धाः कृताः। तेषां कृते राशनकार्डानि, भूमिपट्टाः, प्रधानमन्त्र्यावासयोजना, मुख्यमन्त्र्यावासयोजना, आयुष्मानभारतप्रपत्राणि, निःशुल्कविद्युत्सम्बन्धः, गैससम्बन्धः तथा वृद्धावस्थापेन्शन, निराश्रितमहिलापेन्शन, दिव्याङ्गजनपेन्शनादीनां योजनानां लाभः सुनिश्चितः कृतः। सर्वकारस्य लक्ष्यं प्रत्येकं पात्रजनं सर्वाभिः योजनाभिः शतप्रतिशतं लाभान्वितं कर्तुम् अस्ति।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी पुनः पुनः वदन्ति यत् येषां विषये कांग्रेसदलस्य समाजवादीदलस्य च कदापि चिन्ता नासीत्, तान् सम्मानपूर्वकं समाजस्य मुख्यधारायां योजयितुं द्वियन्त्रसर्वकारेण कार्यं कृतम्। सर्वकारस्य दृष्ट्या जनता केवलं मतकोषः न, अपितु जनार्दनः अस्ति। एतस्मिन्नेव भावे प्रत्येकस्मै नागरिकाय विकासस्य लाभः प्रदीयते।
मुख्यमन्त्री सपेरासमुदायस्य विशेषतया उल्लेखं कृत्वा अवदत् यत् अयं समुदायः प्राचीनकालादेव शिवावतारस्य गुरोः श्रीगोरक्षनाथस्य परम्परायाः अनुयायी अस्ति। विदेशीयाक्रमणानां काले यदा आधुनिकसञ्चारसाधनानि नासन्, तदा अयं समाजः भजनैः पारम्परिकवाद्ययन्त्रैः च जनान् सचेतान् करोति स्म तथा समाजस्य जागरणे महत्त्वपूर्णां भूमिकां निर्वहति स्म। अद्यापि अयं समुदायः घुमन्तुजीवनमेव यापयति। राज्यसर्वकारः तेषां सम्मानजनकपुनर्वासार्थं समग्रविकासार्थं च पूर्णप्रतिबद्धतया कार्यं करिष्यति।
Hindusthan Samachar / Dheeraj Maithani