Enter your Email Address to subscribe to our newsletters

मऊ, 06 अगस्तमासः (हि.स.)।
उत्तरप्रदेशस्य मऊजनपदस्य विकासपुरुष इति विख्यातस्य स्वर्गीयकल्पनाथरायस्य पुण्यतिथिः गुरुवासरे आचरिता। जनपदचिकित्सालयपरिसरे स्थापितायां तस्य प्रतिमायां पत्नी सुधाराय, पुत्री वैष्णवीराय तथा काङ्ग्रेसदलस्य नेतारः कार्यकर्तारश्च माल्यार्पणं कृत्वा श्रद्धाञ्जलिम् अर्पितवन्तः।
माल्यार्पणानन्तरं माध्यमप्रतिनिधिभिः सह संवादं कुर्वती वैष्णवीराय अवदत् यत् अद्यतनः दिवसः केवलं पुण्यतिथिः नास्ति, अपितु क्रान्तेः स्मरणम् इति। सा अवदत् यत् मऊजनपदे यः विकासः अभवत् सः न कस्यचित् सामान्यपरियोजनायाः परिणामः आसीत्, अपितु क्रान्तिकारिविचारस्य प्रतीकः आसीत्।
वैष्णवीराय अवदत् यत् मऊजनपदस्य विकासप्रतिमानस्य चर्चा अन्तरराष्ट्रीयस्तरेऽपि अभवत्। सा अवदत् यत् अमेरिकादेशस्य डेमोक्रेटिकदलस्य प्रतिनिधिः प्रमिलाजयपाल स्वस्य पुस्तके मऊजनपदस्य विकासस्य उल्लेखं कृत्वा तम् आदर्शप्रतिमानरूपेण वर्णितवती अस्ति। तस्याः पितुः विकासकार्यं केवलं निर्माणकार्येषु सीमितं नासीत्, अपितु समाजे व्यापकपरिवर्तनस्य आन्दोलनरूपेण अभवत्।
कार्यक्रमे काङ्ग्रेसदलस्य अनेके पदाधिकारीणः कार्यकर्तारश्च स्वर्गीयकल्पनाथरायाय श्रद्धाञ्जलिम् अर्पयित्वा तस्य विकासकार्यानि संस्मृतवन्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani