Enter your Email Address to subscribe to our newsletters

५० स्वसहायतासमूहानां महिलाः त्रिरङ्गनिर्माणे संलग्नाः, १० अगस्तपर्यन्तं सर्वेषु विकासखण्डमुख्यालयेषु राष्ट्रीयध्वजाः प्राप्स्यन्ति
प्रयागराजः, ०६ अगस्तमास: (हि.स.)। ‘हर घर तिरङ्गा’ अभियानस्य सफल-सञ्चालनाय प्रयागराजे व्यापक-स्तरेण सिद्धताः आरब्धाः। अस्य अभियानस्य अन्तर्गतं जनपदाय पञ्चलक्ष-त्रिरङ्गनिर्माणस्य लक्ष्यं निर्धारितम् अस्ति। एतत् लक्ष्यं सम्पूरयितुं स्वसहायता-समूहानां महिलाः पूर्णसमर्पणेन उत्साहेन च तिरङ्गनिर्माणकार्ये निरताः सन्ति। एतद् गुरुवासरे राष्ट्रीयग्रामीण-आजीविका-भियानस्य उपायुक्ता शमासिंह-महोदया अवदत्।
तया उक्तं यत् जनपदे त्रिरङ्गनिर्माणार्थं द्वे सिवनकेन्द्रे स्थापिते स्तः। तयोः मध्ये कौड़िहार-विकासखण्डस्य एकता सीएफएल नोडलकेन्द्रत्वेन निर्धारितम् अस्ति, अपरं च सिवनकेन्द्रं चाका-विकासखण्डे सञ्चालितम् अस्ति।
तया पुनरुक्तं यत् उभयोः केन्द्रयोः पञ्चविंशति-पञ्चविंशति स्वसहायता-समूहाः, अर्थात् आहत्य पञ्चाशत् स्वसहायतासमूहाः, त्रिरङ्ग-निर्माणकार्ये संलग्नाः सन्ति। निर्धारितसमयस्य अन्तर्गतं सर्वे त्रिरङ्गान् निर्माय १० अगस्तपर्यन्तं जनपदस्य सर्वेषु विकास-खण्डमुख्यालयेषु प्रेषिताः भविष्यन्ति।
उपायुक्ता शमासिंहमहोदया अवदत् यत् ‘हर घर तिरङ्गा’ अभियानं केवलं राष्ट्रीय-ध्वज-आरोहणस्य कार्यक्रमः नास्ति, अपितु देशभक्तेः भावनां जन-जनपर्यन्तं प्रसारयितुं महत्त्वपूर्णम् अभियानम् अस्ति। स्वसहायतासमूहानां महिलानां सक्रिय-सहभागितया एतदभियानम् अधिकं सुदृढं भवति। अनेन महिलाभ्यः रोजगारावसराः अपि प्राप्यन्ते, तथा च ताः राष्ट्रनिर्माणस्य अस्मिन् महत्त्वपूर्णे अभियाने स्वीयां महत्त्वपूर्णां भूमिकां निर्वहन्ति।
अन्ते तया विश्वासः व्यक्त: यत् प्रयागराजः निर्धारितसमये एव पञ्चलक्ष-त्रिरङ्ग-निर्माणस्य लक्ष्यं सफलतया पूरयिष्यति, स्वतन्त्रतादिवसस्य अवसरे च समग्रे जनपदे गृहे-गृहे त्रिरङ्गः उत्तोलिष्यति।
Hindusthan Samachar / Divya Ranjan