Enter your Email Address to subscribe to our newsletters


— ड्रोन तकनीक्या न्यूनसमये अधिक क्षेत्रे उचितसेचनं, व्ययेन न्यूनेन इतोपि उत्पादकता वर्धिष्यते
वाराणसी, 06 अगस्तमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः संसदीयक्षेत्रे वाराणस्यां कृषिक्षेत्रे आधुनिकप्रौद्योगिक्याः प्रोत्साहनदिशि गुरुवासरे महत्त्वपूर्णा पहल कृता। सी.एस्.सी. (कॉमन सर्विस सेण्टर्स) ई-गवर्नेन्स् सर्विसेज् इण्डिया लिमिटेड् इत्यनेन डब्ल्यू.ओ.डब्ल्यू. गो ग्रीन लिमिटेड् इत्यस्य सहयोगेन “कृषिविमान-ड्रोन-स्प्रे-योजना” सफलतया प्रदर्शिता। अस्य कार्यक्रमस्य उद्देश्यं कृषकान् ड्रोनाधारितकृषिसेवाभिः संयोजयितुं वैज्ञानिककृषेः प्रति च जागरूकतां वर्धयितुम् आसीत्।
कार्यक्रमस्य अवधौ अपरजिलाधिकारी (प्रशासन) पी.के. सिंहस्य उपस्थितौ कृषिविमान-ड्रोनस्य प्रत्यक्षप्रदर्शनम् अभवत्। सः ड्रोनस्य कार्यप्रणालीम् अवलोक्य अवदत् यत् आधुनिकप्रौद्योगिकीनां प्रयोगेण कृषिक्षेत्रं अधिकं समर्थं, लाभकरं, स्थायि च कर्तुं शक्यते। सः कृषकाणां समीपम् एतादृश्याः नवाचाराधारितप्रौद्योगिकीनां प्रसारणाय क्रियमाणानां प्रयत्नानामपि प्रशंसाम् अकरोत्।
डब्ल्यू.ओ.डब्ल्यू. गो ग्रीन लिमिटेड् इत्यस्य संस्थापकः डॉ. शङ्करगोयनका अवदत् यत् संस्थया विकसितः उन्नतः कृषिविमान-ड्रोनः इफको संस्थायाः नैनो-यूरिया, नैनो-डी.ए.पी., नैनो-कॉपर, नैनो-जिङ्क्, सागरिका इत्यादीनां कृष्युपयोगिद्रव्याणां वैज्ञानिकेन प्रभावकररीत्या च छिड़कावं कर्तुं समर्थः अस्ति। सः अवदत् यत् ड्रोनप्रौद्योगिक्याः उपयोगेन कृषकाणां व्ययः न्यूनः भविष्यति, समयस्य बचतः भविष्यति, कृषिश्च अधिका उत्पादका भविष्यति।
सः अवदत् यत् कार्यक्रमस्य मुख्योद्देश्यः कृषकान् ड्रोनाधारितकृषिसेवाभिः परिचयितुं तथा उर्वरकाणां कृषिरसायनानां च सुरक्षितस्य वैज्ञानिकस्य च सेचनस्य आधुनिकप्रौद्योगिक्याः प्रदर्शनम् आसीत्। ड्रोनमाध्यमेन अल्पकाले एव विस्तीर्णक्षेत्रे समरूपः सूक्ष्मश्च छिड़कावः सम्भवति, येन श्रमव्ययः न्यूनो भवति, संसाधनानां संरक्षणं भवति, सस्यानां गुणवत्ता उत्पादकता च वर्धते।
कार्यक्रमे बी.एल्.ई.एस्., पी.ए.सी.एस्. तथा एफ्.पी.ओ. संस्थाः ड्रोनसेवया संयोज्य ग्रामीणक्षेत्रेषु “ड्रोन एज् ए सर्विस्” इति आदर्शस्य विकासे विशेषः बलः प्रदत्तः। अस्याः पहलायाः अन्तर्गतं सी.एस्.सी. माध्यमेन प्रशिक्षिताः ग्रामीणोद्यमिनः ड्रोनसञ्चालने संयोज्य स्वरोजगारस्य नूतनावसराः प्रदास्यन्ते। सी.एस्.सी. वाराणसी माध्यमेन बी.एल्.ई. केन्द्रेषु द्वौ कृषिविमान-ड्रोनयंत्रे तथा द्वौ प्रशिक्षितौ ड्रोनचालकौ पूर्वमेव उपलब्धौ कृतौ स्तः। कृषकाः एतेषु केन्द्रेषु संयुज्य ड्रोन-स्प्रे-सेवायाः लाभं प्राप्नुयुः। ड्रोन-स्प्रे-सेवा-प्रदर्शनकार्यक्रमे बहुसंख्यकाः कृषकाः सहभागं कृत्वा आधुनिककृषिप्रौद्योगिक्याः प्रति उत्साहं प्रदर्शितवन्तः।----------
Hindusthan Samachar / Dheeraj Maithani