उर्समेलापकाय चलिष्यति विशिष्टं रेलयानयुगमम्,अष्टमे दिनांके अगस्तमासीये मेलिष्यति अतिरिक्तस्य रेलसंचालनस्य लाभः
बरेली, 06 अगस्तमासः (हि.स.)।बरेलीनगरे आयोज्यमानस्य उर्समेलायाः अवधौ श्रद्धालूनां यात्रिकाणां च अतिरिक्तजनसमागमं दृष्ट्वा पूर्वोत्तररेलवे इज्जतनगरमण्डलेन अगस्तमासस्य ८ दिनाङ्के एकदिनार्थं द्वयोः युग्मयोः उर्समेलाविशेषयानयोः सञ्चालनस्य निर्णयः कृतः।
सांकेतिक फोटो


बरेली, 06 अगस्तमासः (हि.स.)।बरेलीनगरे आयोज्यमानस्य उर्समेलायाः अवधौ श्रद्धालूनां यात्रिकाणां च अतिरिक्तजनसमागमं दृष्ट्वा पूर्वोत्तररेलवे इज्जतनगरमण्डलेन अगस्तमासस्य ८ दिनाङ्के एकदिनार्थं द्वयोः युग्मयोः उर्समेलाविशेषयानयोः सञ्चालनस्य निर्णयः कृतः। एतानि रेलयानानि एकैकस्य फेरेः कृते सञ्चालितानि भविष्यन्ति, येन लालकुआँ, बरेलीसिटी, इज्जतनगर तथा पीलीभीतमार्गेषु यात्रां कुर्वद्भ्यः यात्रिकेभ्यः सुविधा भविष्यति।

रेलवेविभागस्य अनुसारं गाडीसङ्ख्या ०५३१९ इज्जतनगर-लालकुआँ उर्समेलाविशेषयानं सायं ४:०५ वादने इज्जतनगरात् प्रस्थाय भोजीपुरा, बहेड़ी, किच्छा तथा पन्तनगरमार्गेण सायं ६:२० वादने लालकुआँ प्राप्स्यति। पुनरागमनकाले गाडीसङ्ख्या ०५३२० लालकुआँ-बरेलीसिटी विशेषयानं रात्रौ ८:३० वादने लालकुआँतः प्रस्थाय इज्जतनगरमार्गेण रात्रौ १०:४० वादने बरेलीसिटीं प्राप्स्यति।

तथैव गाडीसङ्ख्या ०५३२१ बरेलीसिटी-पीलीभीत उर्समेलाविशेषयानं सायं ४:०५ वादने बरेलीसिटीतः प्रस्थाय इज्जतनगर, भोजीपुरा, सेथल, बिजौरिया तथा शाहीमार्गेण सायं ६:०० वादने पीलीभीतं प्राप्स्यति। पुनरागमनकाले गाडीसङ्ख्या ०५३२२ पीलीभीत-बरेलीसिटी विशेषयानं सायं ७:३५ वादने पीलीभीतात् प्रस्थाय विभिन्नेषु स्थानकेषु विरामं कृत्वा रात्रौ प्रायः ९:१५ वादने इज्जतनगरं प्राप्स्यति।

जनसम्पर्काधिकारी सफदरहुसैनः अवदत् यत् उर्समेलायाः अवधौ यात्रिकाणां सम्भावितभीडां दृष्ट्वा अतिरिक्तविशेषरेलयानानां सञ्चालनं क्रियते। सः यात्रिकान् निर्धारितसमयानुसारं स्थानकं प्राप्नुवन्तु तथा यात्रायाः पूर्वं रेलयानस्य समयसम्बद्धां सूचनां प्राप्नुवन्तु इति आह्वानम् अकरोत्। तस्य कथनम् अस्ति यत् रेलवेविभागस्य प्रयत्नः अस्ति यत् मेलायाम् आगच्छद्भ्यः गच्छद्भ्यश्च यात्रिकेभ्यः सुरक्षितां, सुगमां, सुविधाजनकां च यात्राम् उपलब्धां कारयितुम्।

-----------

Hindusthan Samachar / Dheeraj Maithani