अनुसंधान नैतिकतायै प्रोत्साहनं दातुं निरीक्षणं कर्तुं च काशी हिंदू विश्वविद्यालयेन गठिता समितिः
—समिति कार्यक्षेत्रस्य संचालन व्यवस्थायाश्च प्रस्तावः परामृष्टः वाराणसी,06 अगस्तमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीस्थं काशीहिन्दूविश्वविद्यालयं शैक्षणिकनैतिकतायाः अनुसन्धाने उत्कृष्टतायाश्च सर्वोच्चप्राथमिकतां प्रदाय प्रभाविकार्यक्षमतन्त्रोपस्थाप
प्रतीक फोटो


—समिति कार्यक्षेत्रस्य संचालन व्यवस्थायाश्च प्रस्तावः परामृष्टः

वाराणसी,06 अगस्तमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीस्थं काशीहिन्दूविश्वविद्यालयं शैक्षणिकनैतिकतायाः अनुसन्धाने उत्कृष्टतायाश्च सर्वोच्चप्राथमिकतां प्रदाय प्रभाविकार्यक्षमतन्त्रोपस्थापनस्य प्रक्रियाम् आरब्धवान् अस्ति। एतदर्थं विश्वविद्यालयेन एका समितिः गठिता, या अस्य तन्त्रस्य संरचना, कार्यक्षेत्रं तथा सञ्चालनव्यवस्थां विषये प्रस्तावान् प्रदास्यति। गुरुवासरे एतां सूचनां विश्वविद्यालयस्य जनसम्पर्काधिकारी प्रदत्तवान्।

सः अवदत् यत् अस्याः समितेः उत्तरदायित्वं तेषामपि प्रकरणानां परीक्षणम् अस्ति, येषु अनुसन्धानपत्रिकाभिः अनुसन्धानलेखाः इति प्रक्रियया प्रत्याहृताः आसन्। विश्वविद्यालयस्य केषाञ्चन सङ्कायसदस्यानां लिखितानां सहलेखितानां वा अनुसन्धानलेखानां प्रत्याहारसम्बद्धप्रकरणानां संज्ञानं गृहीत्वा बीएचयू विस्तृतसूचनासङ्ग्रहार्थं तैः सङ्कायसदस्यैः सह सम्पर्कं स्थापितवान् अस्ति। समितिः एतादृशप्रकरणानां तथ्यपरिशीलनं करिष्यति तथा आवश्यकतानुसारम् उपयुक्तान् परामर्शान् अपि प्रदास्यति।

कुलपतिः प्रो. अजितकुमारचतुर्वेदी अवदत् यद् “वयं तादृशं तन्त्रं विकसितुम् इच्छामः, यत् न केवलम् अनुसन्धाने नैतिकतां प्रोत्साहयेत्, अपितु तस्याः सुदृढमाधारमपि निर्मातुम् अर्हति। अस्य सहैव अस्माकं तादृशस्य प्रभाविणः संस्थागतविन्यासस्य आवश्यकता वर्तते, यः अस्माकं अनुसन्धानकार्याणां गुणवत्तायाः निरीक्षणं कुर्यात् तथा तासां परिस्थितीनां परिचयं दद्यात्, याः शैक्षणिकसमुदायेन ग्राह्याः न मन्यन्ते। अस्माकम् उद्देश्यम् एतादृशीं संस्कृतिं विकसितुं वर्तते, यस्यां विभागाः स्वयमेव स्वविद्यार्थिभिः तथा अध्यापकैः प्रकाशितानां अनुसन्धानकार्याणां गुणवत्तायाः विश्वसनीयतायाश्च संरक्षकाः भवेयुः।”

अस्याः समितेः अध्यक्षः जन्तुविज्ञानविभागस्य विशिष्टाचार्यः प्रो. राजीवरमणः भविष्यति। समितेः अन्येषु सदस्येषु वनस्पतिविज्ञानविभागस्य पूर्वाचार्या प्रो. मधूलिकाअग्रवालः, प्राचीनभारतीयइतिहाससंस्कृतिपुरातत्त्वविभागस्य पूर्वाचार्या प्रो. विभात्रिपाठी तथा चिकित्साविज्ञानसंस्थानस्य अनुसन्धानीयाधिष्ठाता प्रो. मनोजपाण्डेयः समाविष्टाः सन्ति। विश्वविद्यालयस्य आन्तरिकगुणवत्तासुनिश्चयनप्रकोष्ठस्य समन्वयकः प्रो. भास्करभट्टाचार्यः समितेः सदस्यसचिवरूपेण नियुक्तः अस्ति।

Hindusthan Samachar / Dheeraj Maithani