Enter your Email Address to subscribe to our newsletters

कोलकाता, 06 अगस्तमासः (हि.स.)। वर्षस्य २०२६–२७ कृते पश्चिमबङ्गविधानसभायाः विविधाः स्थायिसमितयः गठिताः। विधानसभासचिवालयेन निर्गतायामधिसूचनायां वित्तीयविधायीप्रशासनिकसदनसञ्चालनसम्बद्धानां विविधसमितीनाम् अध्यक्षानां सदस्याणां च नियुक्तिः कृता अस्ति।
निर्गतसूच्यानुसारं सार्वजनिकलेखासमितेः अध्यक्षपदे कन्हैयालाल अग्रवालः नियुक्तः अस्ति। “पेपर्स लेड ऑन द टेबल” इति समितेः दायित्वं भाङ्गडनिर्वाचनक्षेत्रस्य आईएसएफ-विधायकाय नौशाद सिद्दीकी समर्पितम् अस्ति। विशेषाधिकारसमितेः (कमेटी ऑफ प्रिविलेजेज) अध्यक्षः डॉ. राजेशकुमारः भविष्यति।
अधीनस्थविधानसमितेः (सबऑर्डिनेट लेजिस्लेशन कमेटी) अध्यक्षपदभारः रथीन घोषाय समर्पितः अस्ति। सदस्यानामधिकारसुविधासमितेः अध्यक्षतां विधानसभाध्यक्षः रथीन्द्र बोस वहिष्यति। अस्यां समितौ उपाध्यक्षः, संसदीयकार्य मन्त्री डॉ. शङ्कर घोषः, मुख्यसर्वकारीयसचेतकः अमलान भादुड़ी तथा सत्तापक्षविपक्षयोः अनेकविधायकाः सदस्यत्वेन नियुक्ताः सन्ति।
विधानसभाग्रन्थालयसमितेः नेतृत्वं पूर्वविधानसभाध्यक्षाय तृणमूलकाङ्ग्रेसस्य विधायकाय बिमान बनर्जी समर्पितम् अस्ति। विधायकक्षेत्रोन्नयनप्रकल्पसमितेः अध्यक्षतां शीतल कापाट वहिष्यति। अपरञ्च समितिप्रणालीसुधारकार्यप्रणालीसम्बद्धसमितेः अध्यक्षपदे समीरकुमार पांजा नियुक्तः अस्ति।
अधिसूचनानुसारं हाउस समितेः अध्यक्षतां भूदराय टुडू वहिष्यति। नियमसमितेः (रूल्स कमेटी) अध्यक्षपदभारः विधानसभाध्यक्षस्य रथीन्द्र बोसस्य अधीने एव भविष्यति। सर्वकारीयाश्वासनसमितेः अध्यक्षः रितेश तिवारी तथा याचिकासमितेः अध्यक्षः चन्द्रनाथ सिन्हा नियुक्तौ स्तः।
तदतिरिक्तं स्थानीयनिधिलेखासमितेः (लोकल फण्ड अकाउण्ट्स कमेटी) अध्यक्षतां अमरनाथ शाखा वहिष्यति तथा प्राक्कलनसमितेः (एस्टिमेट्स कमेटी) अध्यक्षपदं लक्ष्मणचन्द्र घोरुई समर्पितम् अस्ति। विविधासु समितिषु सत्तापक्षस्य विपक्षस्य च विधायकानां समावेशेन समुचितप्रतिनिधित्वं सुनिश्चितीकृतम् अस्ति।
विधानसभायाः एताः स्थायिसमितयः सर्वकारीययोजनानां क्रियान्वयनस्य, वित्तीयव्ययस्य समीक्षायाः, विधायीविषयाणां परीक्षणस्य, प्रशासनिककार्याणां पर्यवेक्षणस्य तथा सदनस्य सुचारुसञ्चालनसम्बद्धविषयाणां विषये विचारविमर्शं कृत्वा स्वीयाः प्रतिवेदनानि अनुशंसाश्च प्रस्तुतयिष्यन्ति। एतासां समितीनां कार्यकालः वर्षस्य २०२६–२७ पर्यन्तं प्रभावी भविष्यति।
Hindusthan Samachar / Dheeraj Maithani